________________
४१४]
[विवेकमञ्जरी
अहो ! अभीरुर्बलवान् यद् भीरुमबलां नलः । मुक्त्वा वनान्तरे याति स्वयं वसति पत्तने" ॥२१॥ ब्रुवन्निति क्षतस्वाङ्गक्षरत्क्षतजरेखया । अक्षराण्यलिखद् दीनो देव्याश्चेलाञ्चले नलः ॥२२॥ "विदर्भेष वटेनाध्वा वामे ! वामेन गच्छति । दक्षिणे ! दक्षिणैरेतैः कोशलायां तु किंशुकैः ॥२३॥ यत्र ते प्रतिभात्येव तत्र देवि ! स्वयं व्रजेः । आत्मानं दर्शयिष्येऽहमुत्तमे ! न तवाधमः" ||२४|| लिखित्वेति नलो मन्दपदपातमथाचलत् । पिबन् मुखाम्बुजं देव्या दृग्भ्यां वलितकन्धरः ॥२५॥ रक्षामि शयितां यावद् यामिनी स्वामिनीमिति । नलः पश्यन् प्रियां वल्लीमण्डलान्तरितः स्थितः ॥२६॥ बिभातायां विभावर्यां देव्या जागरणक्षणे । मृदुद्रुतपदापातमचलद् नलभूपतिः ॥२७।। "अथो हृदयसन्तापं स्फुटीभूतमिवात्मनः । नलो व्यलोकयद् दावानलं ज्वलितमग्रतः ॥२८॥ सूर्यवंशनरोत्तंस ! निषधक्षमापनन्दन ! । महाबल ! नल ! त्राणदक्ष ! संरक्ष मां दवात्" ॥२९॥ इत्याकर्ण्य गिरं दावानलमध्ये स्थितां नलः । अचिन्तयदिदं वेत्ति कोऽत्र मां निर्जने वने ? ॥३०॥ अथोवाच नृपः कस्त्वं मां परिज्ञाय भाषसे ? । इत्युक्ते पुनरुद्भूता भारती दावपावकात् ॥३१॥ भुजगोऽहमदग्धायां वल्लौ संकुचितः स्थितः । निर्गन्तुं भूमितापेन न शक्नोमि दवानलात् ।।३२।।
15