SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४१२] तमो नलीनीलं यदशितमनेनाङ्कभिषतस्, तदन्तःस्थं काचात्मक इव करीरः प्रकटयन् । ततोऽशुप्रस्तारैर्नलसहचरीशीलविशदैर्दिशश्चक्रे चन्द्रः समदकुमुदामोदमुदिताः ॥७४॥ ॥ इति दवदन्तीललितनामनि महाकाव्ये प्रथमः सर्गः ॥ $$ अथोत्तरीयमाधाय पल्यङ्कं पार्थिवाग्रणीः । भुजोपधानमेवाप स्वापमङ्गनया सह ॥१॥ निशीथे पृथिवीनाथो निद्रास्पृशि मृगीदृशि । अचिन्तयच्चिरं चित्ते नियत्वा निहतोद्यमः ॥२॥ [ विवेकमञ्जरी आकारयिष्यति प्रातः प्रिया निजपितुर्गृहे । श्रयन्ते श्वशुरं नीचास्तत् क्व यामि करोमि किम् ? ||३|| श्वः करिष्यामि यद् देवि ! वक्तासीति प्रतिश्रुतम् । वाक्यं दाक्षिण्यसम्भूतं तद् मनोऽतिदुनोति मे ॥४॥ यदि सुप्तां त्यजाम्येतां तद्दिशाऽपैति दुर्यशः । अन्यथा मामियं प्रातः प्रापयत्येव कुण्डिनम् ॥५॥ स्वशीलरक्षितामेतां वरं मुञ्चामि भामिनीम् । न कुण्डिनीगतो दैन्यमन्दो मन्दाक्षमुद्वहे ||६|| निश्चित्येति नलः कान्ताकपोलतलतः करम् । मन्दं चकर्ष निर्यातुमवाञ्छन्तमिव प्रियाम् ||७|| उत्तरीयस्य पर्यङ्कीकृतस्य ग्रहणेच्छया । आचकर्ष ततः शस्त्रीं निस्त्रिंशत्वेन सत्रपः ॥८॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy