________________
5
10
15
20
४१०]
[ विवेकमञ्जरी
तथापि नासौ गमनाद् व्यरंसीद् बलीयसी हि स्वभुवो दिदृक्षा । निजाङ्कपल्यङ्कतले शयाना नलेन भैमीति ततो बभाषे ॥५०॥ देवि ! प्रबुध्यस्व बलं न यातुमीष्टे बतान्ध्रङ्करणैस्तमोभिः | प्रकाशय स्वं तिलकं तदुच्चैः सहस्रभानोर्युवराजकल्पम् ॥५१॥ देव्या ललाटं परिमृज्य क्लृप्ते तमः प्रतीपे तिलकप्रदीपे । ततोऽचलत् तस्य चमूस्तमिस्त्रामध्येऽपि सा चक्रिवरूथिनीव ॥५२॥ नलो महात्मा तमलोकताथ मुनीन्द्रमेकं प्रतिमास्थमग्रे | वनेभघर्षाहितदानलेपलीलैः सहस्राक्षभिव द्विरेफैः ॥५३॥ भक्त्या सभार्योऽपि नलोऽवतीर्य रथादथामुं मुनिमाननाम | ध्यानाद् निरस्तैरिव कर्मवीरैर्व्याख्यायमानं भ्रमरै रणद्भिः ॥५४॥ ततः पुनस्तद्गुणकीर्तनेन निकृत्तपापः सपरिग्रहोऽपि । रथं समारुह्य महारथोऽसावरीणसैन्यः स्वपुरीमियाय ॥५५॥
विवेश तस्यामथ कोशलायां पुरस्कृतोऽसौ निषधेन पित्रा | भैम्या समं स्वं पुरभामिनीभ्यो व्याख्यापयन् पूर्णिमयेव चन्द्रः ॥५६॥ नलं तथा कूबरमात्मपुत्रं निवेश्य राज्येऽपि च यौवराज्ये । निषिद्धकल्को निषधः क्रमेण शमैकसाम्राज्यमुरीचकार ॥५७॥ ततोऽष्टदिग्गोपुरशालमानविशालवेलावनशैलशालाम् । पयोधिलेखापरिखां सुखेन नलः शशासैकपुरीमिवोर्वीम् ॥५८॥ येनाजिभूमौ नृपकुञ्जरेण धनुर्लतायाः करकम्पितायाः । शिलीमुखैराशुगतिप्रयातैर्वंशा व्यकीर्यन्त महीधराणाम् ॥५६॥
तं
कूबरः क्रूरमनाश्छलज्ञः सुवत्सलं द्यूतपथे निनाय । भैम्या निषिद्धोऽपि हि नैषधिस्तन्नैष व्यंरसीदिह शीर्णबुद्धिः ॥६०॥
मोहाकुलः सैष नलः क्रमेण प्रकीडमानः सह कूबरेण । अहारयत् प्राज्यमपीह राज्यमहो ! विधातुर्विषमं चरित्रम् ॥६१॥