________________
४०८]
[विवेकमञ्जरी कश्चित् कराङ्गष्ठनखेन रेखास्तदाऽकरोत् केतकपत्रिकायाम् । भीमात्मजावीक्षणशर्मणोऽक्सिंख्यानिव स्वोच्छ्वसितान्तरायान् ॥२५।। अत्रान्तरेऽधिष्ठतयाप्ययाना लक्ष्मीर्यथा मन्दरकन्दरस्था । उद्वीज्यमानावसरैरुदारैर्वृता सखीभिर्विधृतातपत्रा ॥२६॥ चीनैनवीनैरनणीयसीभिः प्रणीतवेषा परितो मणीभिः । भैमी दधाना वरदाम पाणौ स्वयंवरामण्डपमाजगाम ॥२७॥ युग्मम् ॥ ततोऽखिलानां समकालमेव तस्यां दृशः पेतुरिलापतीनाम् । पुष्पद्रुमाणां परितोऽपि भृङ्गा नवोदितायामिव हेमजात्याम् ॥२८॥ देवि ! प्रसादं कुरु दृष्टिदानादितोऽरिसिंहो जितशत्रुसूनुः । रूपेण मारः किल सुंसुमारपुरेश्वरोऽयं दधिपर्णनामा ॥३०॥ असावपीक्ष्वाकुकुलावतंसश्चन्द्राङ्गजन्मा ननु चन्द्रराजः । चम्पेश्वरोऽयं च सुबाहुनामा भोगान्ववायी धरणेन्द्रसूनुः ॥३१॥ अयं च रोहीतकदेशनाथश्चन्द्रानने ! चन्द्रकिरीटनामा । निर्लाञ्छनोऽसौ शशलाञ्छनाख्योऽरिकेसरिक्षोणिपतेस्तनूजः ॥३२॥ स्वच्छाशयेऽसौ भृगुकच्छनाथो नृदेवरत्नं ननु यज्ञदेवः । सौराष्ट्रभूमीपतिरत्युदारः क्षोणितटेऽसौ मुकुटेश्वराख्यः ॥३३॥ अमीषु यस्मिन् मनसो रसस्ते पतिवरे ! तं पतिमाद्रियस्व । इति ब्रुवाणा प्रतिहाररक्षी भ्रूसञ्ज्ञया प्रेरयति स्म भैमी ॥३४॥ तत्कौमुदीवेन्दुमुखी प्रयान्ती यं यं व्यतीयाय पतीयती सा । स स क्षमाभृत् तिमिरैर्निमीलदृक्कैरवो गुण्ठितमाततान ॥३५।। गत्वाथ मञ्चान्तलसंचितभ्रूयुगां जगौ तामिति वेत्रधारी । अदभ्रधीपात्रि ! विदर्भपुत्रि ! दृष्टिप्रसादादवधारयेस्त्वम् ॥३६।। युगादिनाथान्वयभूनयाप्तसुकौशलः कोशलभूमिपालः । ज्ञेयस्तवायं तपनीयवर्णे ! द्विषां निषेधो निषधाभिधानः ॥३७||