________________
गुणानुमोदनाद्वारे दवदन्तीकथा ]
तदीयरूपद्धिकलानुरूपं विदर्भनाथे वरमीक्षमाणे । बभूव साष्टादशवर्षदेश्या विज्ञानलेश्यानिकषो विधातुः ||१३|| वरं विदग्धा नृवरेषु वीक्ष्य भृङ्गीव पद्मेषु नवारविन्दम् । गृह्णात्वसावित्यथ पार्थवेन्द्रः स्वयंवरामण्डपमाततान ॥१४॥ विदर्भराजार्थितया दिगन्तभूपाललोकः सकलोऽपि तत्र । सम्प्रापदेतां परिणेतुकामः श्रियं यथा स्वर्गिगणः पयोधौ ॥१५॥ एकैकशस्तानभियानपूर्वं सम्मान्य सर्वान् नृपतीनुपेतान् । निवासयामास नृवासवोऽयं स्वपत्तनोपान्तवनावनीषु ॥१६॥ गर्जन्तमूर्जस्वलतूर्यनादैर्नृत्यन्तमुच्चैर्ध्वजधोरणीभिः । उद्धूपधूमैः पुलकं दधानं हसन्तमुल्लोचमणिप्रभाभिः ||१७|| वायूल्लसद्वन्दनमालिकाभिर्भूक्षेपनर्माणि विपञ्चयन्तम् । तं मूर्त्तमानन्दमिवाथ भूपाः स्वयंवरामण्डपमभ्यपेयुः ॥१८॥ युग्मम् ॥ तस्मिन्नमी दत्तमहासनेषु मञ्चेषु पञ्चेषुरसोत्तरङ्गाः । शृङ्गारभाजो विविधेङ्गितेन वैदग्ध्यभङ्गीमवतारयन्तः ॥१९॥ कश्चित् तदा स्वप्रतिबिम्बलक्ष्मीं तिर्यग्मणिस्तम्भगतां दिदृक्षुः । त्रिकं विवित्यैकभुजाभिषङ्गी सुहृज्जनालापमिषं सिषेवे ॥२०॥ कश्चित् रत्नाञ्चितमुष्टिरम्यां क्षुरीं परेषामभिदर्शयिष्यन् । दृष्ट्या च मुष्ट्यावधृतां तदानीमनीनृतद् व्योमनिबद्धलक्षः ॥२१॥ कश्चित् तदा गुम्फितपुष्पगुच्छमुच्छालयामास मुहुः करेण । भैमीकरग्राहकदाग्रहेण दिवः कलानाथमिवापतन्तम् ॥२२॥ कश्चिच्च सिंहासनसंनिविष्टस्तटस्थमात्मीयकरङ्कवाहम् । तत्कन्धरान्यस्तभुजस्तदानीं स्मरप्रहारार्त्त इवाललम्बे ||२३|| कश्चित् तदापाणिपुटस्थनालमुद्भ्रामयंश्चक्र मिवारविन्दम् । क्षरन्मरन्दच्छलतः श्रियोऽब्धिभुवोऽभितः श्रोत्रजलं निरास्थत् ॥२४॥
[ ४०७
5
10
15
20