________________
5
10
15
20
25
४०६]
अथ दवदन्तीकथा
$$ आस्ते पुरं कुण्डनमित्यपाचीदिगङ्गनाभालविभूषणाभम् । यत्रोरमुक्तापरिवेषवेषं प्राकारसानूनि समाश्रयन्ति ॥ १ ॥ विहाय रम्यं पुरमेतदज्ञाः किमत्र यूयं वसथेति यस्य । चैत्यानि लेगुर्दिवि दण्डबाहूनुदस्य सन्देष्टुमिवामरेभ्यः ||२|| प्रक्रीडमानाः स्वगृहाङ्गणेषु कुमारिकास्तारकतारभांसि । रत्नान्यहो ! खेलनकर्करत्वं कर्केतनादीनि नयन्ति यत्र || ३ ||
-
[ विवेकमञ्जरी
सुतम्बकीभावकलामलावस्तनावनभ्रान्तरमुष्टिकत्राम् (?) । गुणप्रवीणां रचयन्ति वीणां प्रियां च पौरा न हि यत्र दूरात् ॥४॥ त्रिवर्गसारेऽत्र विदर्भदेशे विकस्वराभ्भोरुहकर्णिकाभे राजाऽभवद् भीम इति प्रसिद्धः सिद्धाङ्गनागीतगुणाप्रक्तिः ||५|| यस्य द्विषत्क्षत्त्रकुलापकीर्तिभृङ्गीभृतो दिग्वनितावसंतान् । यशःप्रसूनोपचितानकार्षीत् करालवाले करवालवल्ली ॥६॥ गङ्गेव सिन्धो रुगिवाब्जबन्धोः शचीव जिष्णोः कमलेव विष्णोः । तस्य प्रशस्या किल पुष्पदन्ती दन्तीश्वरस्याभ्रमुवत् प्रियाऽऽसीत् ॥७॥ तस्यां च तस्याङ्गभवा दवार्त्तदन्त्यागमस्वप्ननिवेदितर्द्धिः । बभूव नाम्ना दवदन्त्यभिज्ञा कलासु सर्वास्वपि शारदेव ॥८॥ प्राग्भाग्यसर्वावसरासनं तद्भालेऽतिभास्वस्तिलकश्चकाशे । भ्रूचीनचारुणि जगन्ति जेतुमाविष्कृतं चक्रमिव स्मरेण ॥९॥ प्राक्पुण्यतः शासनदेवताऽऽविर्भूयैकदा तामिदमब्रवीच्च । श्रीशान्तिनाथस्य भविष्यतीर्थकृतस्त्वमेतां प्रतिमां यजेथाः ||१०|| इतीरयित्वा करपद्मकोशे तस्या जिनार्चामपि तां निवेश्य । तिरोदधे शासनदेवता सा भेजे च भैमी शिरसा तदाज्ञाम् ॥११॥ सा पूजयन्ती जिनमार्यिकाभ्यो जैनं च धर्माक्षरमाददाना । द्वेधापि बाल्यं परिहृत्य भेजे वयो मनश्चापि समं प्रबुद्धम् ॥१२॥