________________
[४०५
10
गुणानुमोदनाद्वारे मदनरेखाकथा]
"अथ देवोऽब्रवीदेवं युगबाहुरहं पुरा । भ्रात्रा मणिरथेनोर्वीभृताऽसिलतया हतः ॥८५।। ततः कण्ठगतप्राणोऽनया मदनरेखया । प्रियया प्रीणितो जैनधर्माख्यामृतधारया ॥८६।। ततः समाधियोगेन मुक्तमर्त्यकलेवरः । ब्रह्मलोकेऽभवं सोऽहमिन्द्रसामानिकः सुरः ॥८७।। धर्माचार्या ममेयं यत् तेनादौ प्रणता मया । श्रुत्वेति खेचरो धर्ममहिमानममोदत" ॥८८|| मुदा मदनरेखां च युगबाहसुरो जगौ । साधर्मिके ! प्रियं किं ते क्रियतामद्य शाधि माम् ? ॥८९॥ सापि तं निजगादेति प्रियं मुक्तिपदं मम । तद् नान्तरेण सर्वज्ञमपरो दातुमीश्वरः ॥१०॥ तथापि मिथिलापुर्यां नय मां त्रिदशोत्तम ! । तत्र पुत्रमुखं दृष्ट्वा यतिष्ये यतिकर्मणि ॥९१॥ ततोऽसौ तत्क्षणादेव देवेन मिथिलापुरीम् । नीता नत्वात्र चैत्यानि ययौ साध्वीप्रतिश्रये ॥९२॥ तत्र प्रवर्तिनीपादानसौ नत्वोपविश्य च । शुश्राव देशनां मोहतमःकदनकौमुदीम् ॥९३॥ ततः पुत्रमुखं द्रष्टुं देवेन भणितांहसा । किं मोहहेतुनाऽनेनेत्युक्तः सोऽपि दिवं ययौ ॥९४॥ आदाय मदनरेखा व्रतमथ तत्र प्रवर्तिनीपार्श्वे । तपसा कर्मविनाशादासादयति स्म मुक्तिं सा ॥६५।।
॥ इति मदनरेखाकथा ॥