________________
४०४]
[विवेकमञ्जरी
तत् किमत्र विधेयं मे हुं कालहरणं किल । . मिथ्यापि सत्यसन्धाया यत् तथ्याद् नातिरिच्यते ॥७३॥ निर्धार्येति जगादैनं युगबाहुपतिव्रता । नय नन्दीश्वरं मां तत् प्रियं तेऽपि विधास्यते ॥७४।। ततः श्रुत्वेति विद्याभृद्ग्रामणी: स मणीमये । विमाने तां समारोप्यानन्दी नन्दीश्वरं ययौ ॥७५॥ तत्र प्रीतां द्विपञ्चाशञ्चैत्यानां शाश्वतार्हतः । ननामानर्च तुष्टाव सा भावरसिताशया ॥७६॥ मणिप्रभेण साकं सा मणिचूडमुनीश्वरम् । गत्वा नत्वा पुरोऽमुष्य निषसाद यथाविधि ॥७७|| ततो मदनरेखाया मत्वा व्यतिकरं मुनिः । ज्ञानलोकाच्चतुर्ज्ञानी मणिप्रभमबोधयत् ॥७८।। अथो मणिप्रभेणैषा प्रबुद्धेन महात्मना । क्षामिता यामितां नीता प्रोक्ता किं तेऽधुना प्रियम् ? ॥७९॥ सोचे नातः परं किञ्चित् प्रियं बान्धव ! यत् त्वया । इदं नन्दीश्वरं तीर्थं समानेषि सुदुर्लभम् ॥८०॥ विमानमेकमायासीदसमानमिहान्तरे । तन्मणीकिङ्किणीक्वाणडामरं चलचामरम् ॥८१॥ तस्माद् विनिर्ययावेकः प्रभया भासुरः सुरः । . हार-केयूर-कोटीर-कुण्डलादिविभूषणः ॥८२॥ तां सती त्रिः परीयासौ पुरो नत्वातिभक्तितः । ततोऽनमद् मुनि तस्य पुरतो निषसाद च ॥८३॥ अथ विद्याधरेणैव विस्मितेनेति भाषितः । देव ! कोऽयं त्वया चक्रे विनयातिक्रमः क्रमः ? ॥८४॥