SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ [४०३ गुणानुमोदनाद्वारे मदनरेखाकथा] तदेको बालकः सोऽयं हंस्यते श्वापदेन हा ! आहाररहितो मृत्युं लप्स्यते स्वयमेव वा ॥६१॥ तदक्षेपाद् महासत्त्व ! पुत्रभिक्षां प्रयच्छ मे। तत्र मां नय तं वाऽत्र कृपापात्रं समानय ॥६२।। विद्याधरोऽब्रवीत् कान्तं यदि मां प्रतिपद्यसे । कर्ता तदा त्वदादेशमस्मि सारङ्गलोचने ! ॥६३।। अन्यश्च सुभ्र ! गान्धारदेशे रत्नावहे पुरे । खगेन्दुर्मणिचूडोऽभूत् प्रियास्य कमलावती ॥६४॥ तयोर्मणिप्रभाख्योऽहमस्मि सूनुः शुचिस्मिते ! । तद् मां श्रेणीद्वयाधीशं कृत्वा तातोऽग्रहीद् व्रतम् ॥६५॥ क्रमेण विहरन् सैष ह्य एवात्रागतोऽभवत् । साम्प्रतं तु गतो नन्दीश्वरं चैत्यानि वन्दितुम् ॥६६॥ मयापि गच्छता तत्र नभस्याऽऽसादि सुन्दरि ! । तद् मां पतिमुरीकृत्य भव विद्याधरेश्वरी ॥६७॥ अन्यच्च ते सुतं प्राप्य विपिनाद् मिथिलानृपः । प्रीत्याऽऽर्पयद् महादेव्यै पाल्यमानोऽस्ति शोभने ! ॥६८॥ प्रज्ञप्त्येदं मयाऽज्ञायि विद्यया तत् प्रसीद मे । भुक्ष्व भोगान् मया साकं पौलोमीव मरुवता ॥६९॥ श्रुत्वेत्यचिन्तयदसावहो ! मे कर्मणां दशा । यद् भवामि हहान्यान्यतरव्यसनभागिनी ॥७०॥ विभूतयोऽपि मा भूवशीलम्लानिपचेलिमाः । गेहदाहसमुद्भूतमुद्द्योतं कः समीहते ? ॥७१॥ ऋते पति सुशीलानां दारिद्रयमपि मण्डनम् । न्याय्य एव सरोजिन्याः सङ्कोचस्तपनं विना ॥७२॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy