SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे मदनरेखाकथा ] सर्वः स्वकर्मणां पूर्वकृतानामश्नुते फलम् । परो निमित्तमात्रं स्यात् तद्दोषेषु गुणेषु च ॥३७॥ तद् दधीथा मनः साम्ये सुगतेर्मुख्यकारणम् । शरणं च तव चत्वारोऽर्हन्मुख्यास्ते च मङ्गलम् ॥३८॥ अज्ञानाच्च कुसङ्गाच्च यत् त्वयाऽकारि कर्हिचित् । पुण्यार्ह ! दुष्कृतं गर्ह तद् मङ्गलनिवर्हणम् ॥३९॥ सुगृहीतां च कुर्वीथाः सुगतिद्वारकुञ्चिकाम् । अप्रपञ्चमते ! पञ्चपरमेष्ठिनमस्त्रियाम्" ॥४०॥ इत्येतया शुभध्यानसोपानमधिरोपितः । युगबाहुर्ययावुच्चैः पदं प्राणविनाकृतः ॥ ४१ ॥ ततः पितृशुचा चन्द्रयशाः सहपरिच्छदः । रुदन्नमन्दं प्रधानै रोदसीमप्यरोदयत् ॥४२॥ " दध्यौ मदनरेखा तु धिग् धिग् मे रूपसम्पदम् । ययास्मि गमिता हन्त हताशानर्थमीदृशम् ॥४३॥ असौ च शीलविध्वंसमशौचो मे करिष्यति । निहंस्यति च मे पुत्रमपि कान्तो यथा हतः ॥४४॥ साम्प्रतं साम्प्रतं तद् मे स्थानमत्र लवोऽपि न । गत्वा विदेशमाधास्ये परलोकहितं व्रतम्" ॥४५॥ चिन्तयित्वेति सा पुत्रमप्यनापृच्छ्य सत्वरा । निःसृत्योद्यानतस्तस्मात् प्रचचाल दिशैकया ॥४६॥ पादयोः कण्टकैर्बाढं हृदये शोकशङ्कना । पीड्यमाना ययौ मार्गे निशीथेऽह्नीव सा जवात् ॥४७॥ क्रमात् प्रापाटवीमेकां सानेकतरुगह्वराम् । तत्र मार्गमिवादेष्टुमुदियाय च भास्करः ॥४८॥ [ ४०१ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy