________________
४००]
[विवेकमञ्जरी
चिन्तयित्वेत्यसौ दुष्टो मुष्टिना कलयन्नसिम् । गतो बहिर्वनेऽपृच्छद् यामिकानित्यनामिकः ॥२५॥ भो भोः ! शंसत मे बन्धुर्युगबाहुः क्व वर्तते ? । श्रुत्वेति तद्वचस्तेऽपि शशंसुः कदलीगृहे ॥२६॥ - मैनं कश्चिच्छलाग्वेषी द्वेषी हन्यादिह स्थितम् । इत्यागामित्यसौ जल्पन्नथ केलिगृहेऽविशत् ॥२७॥ ससम्भ्रममथोत्थाय युगबाहुस्तमानमत् । अलमत्रोषितेनैहि पुरमित्यनुमोदितः ॥२८॥ तदादेशादसौ गन्तुं पुराय प्रगुणीभवन् । हतो हतात्मना तेन कन्धरायां शितासिना ॥२९॥ युगबाहुस्ततो मूर्छामीलिताक्षोऽपतद् भुवि । तारं तारं च पूच्चक्रे शुचा मदनरेखया ॥३०॥ किमेतदिति संभ्रान्ताः पत्तयः परितोऽमिलन् । ऊचे राज्ञा च्युतः पाणेर्दैवादसिरसौ मम ॥३१॥ नूनमेतद् नृपस्यैव चेष्टितं पापवेष्टितम् । विभृश्येति बलादेनं पत्तयः पत्तनेऽनयन् ॥३२॥ ते चन्द्रयशसोऽप्याख्यन् युगबाहोस्तथाकथाम् । सोऽपि वैद्यानुपादायोद्यानं तूर्णमुपाययौ ॥३३॥ व्रणकर्मणि वैद्येषु वितन्वत्सु प्रयत्नतः । युगबाहोस्तदा तारायनभङ्गोऽभवत् पुनः ॥३४।। ततो मदनरेखाऽस्मै परलोकाध्वयायिने । धृत्वा विवेकिनी धैर्यं विदधे धर्मशम्बलम् ॥३५॥ "महासत्त्व ! न ते कश्चित् त्वं च कस्यापि न ध्रुवम् । कुटुम्बे देहिनां योगः पक्षिणामिव शाखिनि ॥३६॥