SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [३९९ गुणानुमोदनाद्वारे मदनरेखाकथा] यावत् ते बन्धुरस्त्येष तावद् नोचितमीदृशम् । एनं केनाप्युपायेन हन्मि तत् किमनेन मे ? ॥१३॥ इति दुष्टमतेरस्य युगबाहुं निशुम्भितुम् । छलं मृगयमाणस्य ययौ कालः कियानपि ॥१४॥ इतो मदनरेखा तु चन्द्रस्वप्नेन सूचितम् । गर्भ कादम्बिनीबाधाद् युगबाहो वेरिव ॥१५॥ जिनार्चासङ्घसम्मानरूपान् भूपानृजो बहून् । तस्याश्च पूरयामास तृतीये मासि दोहदान् ॥१६॥ युगबाहुर्यमाहूत इव चैत्रोत्सवेऽन्यदा । जगाम रन्तुमुद्याने समं मदनरेखया ॥१७|| क्रीडतः कान्तया साकं तया साकम्पया स्मरात् । दिनान्तेऽस्तमगात् तस्य प्राच्यपुण्यमिवांशुमान् ॥१८॥ क्षणं स्थित्वा च सन्ध्यास्यलक्ष्मीरिव तिरोदधे । रुरोध च तमस्तस्य दशा इव दिशो दश ॥१९॥ युगबाहुरसौ तस्मिन्नेवोवास निशां वने । येन संजायते पुंसां बुद्धिः कर्मानुसारिणी ॥२०॥ उद्दामयुद्धान् विमुच्यैष यामिकान् परितो वनम् । रम्भाकेलिगृहेऽशेत समं मदनरेखया ॥२१॥ अथो मणिरथो दध्यावसाववसरो वरः । सुप्रसन्नाद् विधेः प्राप्तः सुचिरं वाञ्छता मया ॥२२॥ एकं तावत्प्रसङ्गेन युगबाहुर्बहिर्वने । द्वितीयमेष कतिचित्पादातपरिवारितः ॥२३॥ तृतीयं साम्प्रतं रात्रिश्चतुर्थं वनमस्ति तत् । हन्मि गत्वा प्रियासङ्गविघ्नं मूर्त्तमिवाशुभम् ॥२४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy