________________
[३९५
गुणानुमोदनाद्वारे राजीमतीकथा]
विलपन्तीति धारिण्या धृत्वोत्सङ्गेऽथ सा स्वयम् । बभाषे वसनान्तेन मार्जयन्त्यश्रु तदृशोः ॥७२॥ प्रिये वत्से ! स्म मा रोदीर्लभ्यः क्व क्वेदृशः पतिः । किं करे किङ्करेन्द्रस्य तिष्ठेच्चिन्तामणिः क्वचित् ? ॥७३॥ निजमानमतिक्रम्य चलतां सिद्धिरस्ति न । राहोराहारितोऽपीन्दुर्गलादपि पलायते ॥७४॥ तद् वत्से ! त्वत्समं राजकुमार कञ्चन त्वया । अह्नायोद्वाहयिष्यामि मनो वालय नेमितः ॥७५।। "अथ राजीमती प्राह त्वं मातर्मेदमभ्यधाः । पतिर्मे नेमिरेवात्र पङ्कजिन्या इवार्यमा ॥७६॥ ज्ञाता दाता च पाता च ततो नान्योऽस्ति कश्चन । यादृशस्तादृशो वास्तु स एव शरणं मम ॥७७॥ इति चेतो दृढीकृत्य ध्यायन्ती प्रभुपादुकाम् ।
तस्थौ राजीमती भावयतीभूय पितुर्गृहे" ||७८॥ $$ रथनेमिरथ भ्राता कनीयाञ्जगदीशितुः । राजीमतीमियायैत्पाणिग्रहमनाः सना ॥७९॥ अहो प्रजावतीमोहाद् मामुपासितमेत्यसौ। इति राजीमती मत्वा तमायान्तमुपाचरत् ।।८०॥ स पुनः सम्भ्रमाद् मत्वा तामात्मन्यनुरागिणीम् । भाणयामास दासीभिरात्मोद्वाहाय दुर्मतिः ॥८१॥ "राजीमत्यपि तद् बुद्ध्वाऽचिन्तयद् धुन्वती शिरः । प्रभोरस्य च सौदर्येऽप्यहो ! सत्त्वान्तरं कियत् ? ॥८२।। दिष्ट्या तत्याज मां राज्यश्रियं चोच्छिष्टवत् प्रभुः । असौ त्वशौचः श्वेवैतद्वयं काङ्क्षति धिग् विधिम् ॥८३॥
15