________________
गुणानुमोदनाद्वारे राजीमतीकथा ]
$$ इतश्चाकर्णयन् नानाजीवानां करुणं स्वरम् । जानन्नपि जिनोऽपृच्छत् कमेतदिति सारथिम् ॥४८॥ अथ सारथिनाऽभाषि देवातिथ्यकृते तव । उग्रसेनोऽग्रहीज्जीवाञ्जलस्थलनभश्चरान् ॥४९॥
तत्सर्वेऽपि कृपाकान्त ! वाटकान्तः स्थिता अमी । तन्वते तुमुलं प्राणभयं येन महाभयम् ॥५०॥ अथोवाच यदुस्वामी यत्रामी सन्ति जन्तवः । स्यन्दनं नय तत्रैतं तदकार्षीच्च सारथिः ॥ ५१॥ अथ व्यलोकि दीनास्यैः प्राणिभिः स्वस्वभाषया । रक्ष रक्षेति जल्पद्भिः पितेव तनुजैः प्रभुः ॥४२॥ करुणाकदलीमूलकन्देन विभुना ततः । अमी सर्वेऽप्यमोच्यन्त जवादादिश्य सारथिम् ॥५३॥ मुक्तेषु तेषु जीवेषु शमेनेव वपुष्मता । स्यन्दनो जगतां पत्या प्रत्यावासमवाल्यत ॥५४॥ शिवा - समुद्रविजय - कृष्ण - रामादयोऽप्यथ । स्वं स्वं यानं समुत्सृज्य वेगाद् नेमिनमन्वगुः ॥५५ ॥
तं चाथ नाथमूचाते पितरौ साश्रुलोचनौ । त्वया जात ! किमारब्धभिदं नः प्रातिलोमिकम् ? ॥५६॥ प्रभुः प्राह मयारब्धमेतद् विश्वानुकूलिकम् । मोचयिष्यामि यद् युष्मान् स्वं च बन्धनात् ॥५७॥ पशुवद् तदाकर्ण्याथ मूर्च्छालौ पितरौ पेततुः क्षितौ । चन्दनादिभिराश्वास्य कृष्णस्तौ, प्रभुमभ्यधात् ॥५८॥ धिक् ते विवेकतामेतान् पशूनप्यनुकम्पसे । दोदूयसे पुनर्मातृ-पितृ-भ्रातृ-सुहृज्जनान् ॥५९॥
[ ३९३
5
10
15
20