SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 10 ३९२] [विवेकमञ्जरी . तमस्नपयतां प्रीत्या राम-दामोदरौ स्वयम् । बद्धप्रतिसरं नेमिनाथं नाराचधारिणम् ॥३६॥ आगादथोग्रसेनस्य निकेतं तार्क्ष्यकेतनः । स्वयं तद्विधिना राजीमतीमप्यध्यवासयत् ॥३७॥ शर्वरीं सर्वरीतिज्ञो निर्वायैतां गुहागतः । हरिः संवाहयामास विवाहाय विभुं मुदा ॥३८॥ अथ श्वेतांशुवत्कान्तश्वेतच्छत्रविराजितः । श्रीनेमिः श्वेतशृङ्गारः श्वेताश्वं रथमास्थितः ॥३९॥ तूर्यनिर्घोषसंहत्या पुराहृतवधूजनः । बन्दिवृन्दमुखोन्मुक्तैः सूक्तैर्मुखरिताम्बरः ॥४०॥ गीर्यमाणगुणग्रामो हृष्टैर्बन्धुवधूजनैः । कार्मयामिसमूहेन क्रियमाणावतारणः ॥४१॥ परीतो यदुभिः सर्वै पार्वणेन्दुरिवोडुभिः । उग्रसेनगृहासन्नो जगाम जगदीश्वरः ॥४२॥ कलापकम् ॥ "वयस्याभिरभिप्रायविद्भिः सा प्रेरिता ततः । उत्थाय संभ्रमाद् मातृगृहादुज्जृम्भितस्पृहा ॥४३॥ हारकेयूरकोटीरकर्णपूराद्यलङ्कृता । वासोभिः शोभितानल्पैः कल्पवल्लीव जङ्गमा ॥४४॥ हर्षपीयूषवर्षेणोद्भिन्नरोमाङ्करोत्करा ।। आरुरोह वरारोहा गवाक्षे वीक्षितुं विभुम् ॥४५॥ विशेषकम् ।। तस्यातिशायि लावण्यं पिबन्ती सा दृशा भृशम् । अनिमेषतया पूर्ण सा देवीभूयमन्वभूत् ॥४६॥ विवोढुमप्युपायान्तं सा तं वीक्ष्य व्यचिन्तयत् । एतत्पाणिग्रहे योग्यं भाग्यं किं मे भवेदिति" ॥४७॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy