________________
[३९१
गुणानुमोदनाद्वारे राजीमतीकथा]
रुक्मिणीसत्यभामाद्याः सर्वा अपि हरिप्रियाः । तदेवाभ्यर्थयन्त्योऽस्य पादयोः पेतुरातुराः ॥२४॥ अन्येऽपि यादवः सर्वे विवाहे विहितादराः । बभूवुर्नेमिनाथस्य पुरः पटुचटूक्तयः ॥२५।। अमी मूढाः स्त्रियश्चैतास्तदेतसदाग्रहे । कालनिर्गमनं कर्तुं युक्तं वचनमाननम् ॥२६॥ कदाचिदपि लप्स्येऽहमिहार्थे सन्धिदूषणम् । ध्यात्वेदमोमिति प्रोच्य श्रीनेमिस्तानमोदयत् ॥२७॥ युग्मम् ॥ शिवा-समुद्रविजयौ तत्कथाकथके नरे । दातुं नापृश्यतां वस्तु राज्येऽप्यानन्दमानतः ॥२८॥ स्वबन्धोरुचितां कन्यामन्विष्यन्नथ केशवः । अभाषि भामयाऽऽस्ते यद् मम राजीमती श्वसा ॥२९।। हरिः स्मृत्वाथ तां स्मित्वा ययौ यदुभिरन्वितः । निवासमुग्रसेनस्य ग्रहाधीशो ग्रहैरिव ॥३०॥ अभ्युत्थायोग्रसेनोऽपि विश्वसेनं ससंभ्रमः । भद्रपीठे निवेश्याग्रे तस्थावादेशलालसः ॥३१॥ याचितो नेमये राजीमतीमेतेन स स्वयम् । तथेति प्रतिपद्याथ सच्चक्रे चक्रिणं मुदा ॥३२॥ ततः कृष्णेन विज्ञप्तः समुद्रविजयो नृपः । विवाहलग्नमासन्नं पृष्ठवान् क्रोष्टुकिं तदा ॥३३॥ दत्तेऽथ श्रावणश्वेतषष्ठयां क्रोष्टुकिना दिने । उग्रसेन-समुद्रोर्वीनाथौ तूर्णमसज्जताम् ॥३४॥ अथ पाणिग्रहासन्नदिने नेमि यदुस्त्रियः । प्राङ्मुखं स्थापयामासुर्भासुराब्धगीतयः ॥३५।।