SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३९०] [विवेकमञ्जरी 10 समन्ततः समं ताभिः करिणीभिरिव द्विपः । चिक्रीड नेमिनाथोऽपि पाथोभिः करलालितैः ॥१२॥ इति खेलन्तमालोक्य तदानीं नेमिनं मुदा । कृतार्थीकृतदृक् तस्थौ चिरं पयसि केशवः ॥१३|| निर्गत्य सरसस्तीरे तस्थुस्ता जिष्णुयोषितः । तासु प्रभुरभात् पुण्ड्रमुक्तास्विव हरिन्मणिः ॥१४॥ तदा पूर्वैर्जलस्रुत्याऽरोदीव प्रभुणोज्झितैः । अङ्कीकृतैरपूर्वैश्चाहासीव महसांशुकैः ॥१५॥ अथ तत्रोत्सुकत्रैणन्यस्ते हेमासने हरिः । निवेश्य नेमिनं प्राह सुमाहात्म्यकिरा गिरा ॥१६॥ "वाच्यं देव ! त्वदग्रे यत् तद् वाधौ वृष्टिसन्निभम् । नापराध्यामि तज्जल्पन् मान्यश्चास्मि त्वया कियत् ॥१७॥ पित्रोर्मनोरथौ स्यातां दुष्पूरावादिमस्तयोः । जातस्यास्येक्षणं सूनोः परिणीतस्य चापरः ॥१८॥ ततः समुद्रविजय-शिवादेव्योः स्वपूज्ययोः । जाते त्वयि जगद्दीपे पूर्वं पूर्णे मनोरथः ॥१९|| राजकन्यां तदुद्वाह्य धन्यां काञ्चन सम्प्रति । पित्रोर्मनोरथं देव ! द्वितीयमपि पूरय ॥२०॥ श्रीनाभेयादयस्तीर्थकराः के न मुमुक्षवः ।। परिणीय समुत्पन्नसूनवो दधिरे व्रतम् ? ॥२१॥ त्वमप्यतो विवाहेन पितृभ्रातृसुहृज्जनम् । आनन्दय दयासार! दयास्थानमिदं महत् ।।२२।। इत्थं कृष्णः सतृष्णोऽस्य पाणिग्रहमहं प्रति । कुर्वन्नभ्यर्थनां नेमेः पाणौ दीन इवालगत्" ॥२३॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy