SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [३८९ गुणानुमोदनाद्वारे राजीमतीकथा] सुलसा तु महासती श्रीमहावीरपरमश्राविका क्षायिकसम्यक्त्वधारिणी नागरथकारगेहिनी राजगृहराजश्श्रेणिकमित्रद्वात्रिंशत्पुमाताऽभयकुमारकथायामुपदिष्टैव । सम्प्रति तु राजमतीकथा - ६६ रैवताधो गिरिपुरं नामास्ति पुरमद्भुतम् । यत्रासिरेव निस्त्रिंशो बाण एव च मार्गणः ॥१॥ भोजवृष्णिकुलाम्भोजनभोमणिनिभो नृपः । उग्रसेनोऽभवत् तस्मिन्नुग्रतेजोऽरिभूभुजाम् ॥२॥ राजीमतीति राजीववदना तस्य नन्दना । बभूव धारिणीकुक्षिसरसी कलहंसिका ॥३॥ यदङ्गे युगरूपं यत् तद् मिथः प्रथितोपमम् । एकरूपं तु यत् तस्योपमानं मुकुरे यदि ॥४॥ अनुरूपो वरोऽमुष्याः कः स्यादित्युग्रचिन्तया । उग्रसेनोऽभवद् व्यग्रमानसोऽनिशमेव सः ॥५॥ $$ इतश्च द्वारकानाथो नेमिनाथान्वितस्तदा । ग्रीष्मे सान्तःपुरो रन्तुं रैवतोद्यानमागमत् ॥६॥ चन्द्रार्काविव ताराभिस्तत्र तौ स्त्रीभिरावृतौ । सरो विविशतुः स्नातुं विरच्यः कुसुमोच्चयम् ।।७।। स्त्रीणां नितम्बसम्बन्धवृद्धेऽम्बुनि तदाम्बुजैः । अमज्जि लज्जयेवासां मुखलक्ष्मीविलोकनात् ।।८।। जले गर्जति पर्जन्य इवासां करताडने । नृत्ता ग्रीष्ममपि प्रावृट्कालयन्ति स्म केकिनः ॥९॥ गौरीषु तासु खेलन्तौ कृष्णौ तौ विष्णु-नेमिनौ । चारुचम्पकमालासु रोलम्बाविव रेजतुः ॥१०॥ मनोमुदे वरं सिक्त्वा देवरं प्रति नेमिनम् । तास्ततश्चक्रिरे नीरप्रपञ्चं नर्मकर्मठाः ॥११॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy