SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८८] [विवेकमञ्जरी "त्यक्तोग्रश्वापदेरण्येऽजीवस्त्वं स्वप्रभावतः । एकं दिव्यं तदप्यासीद् नाज्ञासिषमहं पुनः ॥२०६॥ क्षान्त्वा सर्वं ममेदानीमिदमध्यास्स्व पुष्पकम् । .. चल स्ववेश्मने प्राग्वत् कुरु राज्यं मया सह" ॥२०७|| "सीताप्यूचे न ते दोषो न च लोकस्य कश्चन । न चान्यस्यापि कस्यापि किन्तु मत्पूर्वकर्मणाम् ॥२०८॥ निर्विण्णा कर्मणामीदृग्दुःखावर्त्तप्रदायिनाम् । उत्तमार्थं श्रयिष्यामि तदुच्छेदनिबन्धनम् ॥२०९॥ इत्युक्त्वाऽथ क्षमाकं किल जनकभुवः प्रव्रजन्त्याः स केशानाधत्तैषापि तप्त्वा चिरममरपतिः प्रान्तकल्पे बभूव । तस्मात् कूलेन केनाप्यसमतशमध्याननिधौतकर्मा, शर्माद्वैतं प्रपेदे कृतविषयविपल्लाघवो राघवोऽपि ॥२१०॥ ॥ इति सीताचरितनामनि महाकाव्ये चतुर्थः सर्गः ॥ ॥ इति सीताकथा ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy