________________
३८६]
[विवेकमञ्जरी
अग्रे निषद्य सौमित्रिनृपैः सममदोऽवदत् । निजां पुरीं निजं वेश्म प्रवेशाद् देवि ! पावय ॥१८२॥ सीताप्यूचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहं च नान्यथा वत्स ! निर्वादो यदि शाम्यति ॥१८३।। श्रुत्वेति राघवोऽभ्येत्य मैथिलीमथ शुद्धये । अन्वशाद् नन्वसावेनं स्मितपूर्वमदोऽवदत् ॥१८४॥ दण्डमादौ विधायाद्य कुरुषे मत्परीक्षणम् । विचक्षणोऽसि काकुत्स्थ ! सज्जा तत्रापि नन्वहम् ॥१८५।। ऊचे विलक्षो रामोऽपि जाने दोषस्तवास्ति न । जनोत्पादितदोषस्योत्तारणायेदमुच्यते ॥१८६॥ "जगाद जानकी दिव्यपञ्चकं स्वीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यथ तन्दुलान् ॥१८७॥ तुलां समधिरोहामि तप्तं कोशं पिबामि च । गृह्णामि जिह्वया फालं किं तुभ्यं रोचते वद ?" ॥१८८॥ युग्मम् ॥ अत्रान्तरेऽभ्यधुः पौरा दूरादभ्येत्य राघवम् । इयं महासती सीता देव ! किं दिव्यकर्मणा ? ॥१८९॥ रामोऽप्यवाच हे लोकाः ! मर्यादा कापि नास्ति वः । संकल्प्य दोषं युष्माभिरेवेयं दूषिता पुरा ॥१९०॥ भूयोऽपि गृह्णता दोषमर्गला कापि नास्ति वः । प्रत्ययाय ततः सीता विशतु ज्वलितेऽनले ॥१९१॥ इत्युक्त्वाऽखानयद् रामो गर्त हस्तशतत्रयम् । पुरुषद्वयदनं चापूरयच्चन्दनेन्धनैः ॥१९२।। तं दीप्रदहनं भृत्यैः कारयित्वैष भीषणम् । दध्यौ मनसि हा ! कष्टं किं ममेदमुपस्थितम् ? ॥१९३।।
15
20
१. अत्र 'जातु' इति हेमचन्द्रकृतरामायणोक्तः पाठः सुयुक्तः प्रतिभाति ।