________________
[३८५
गुणानुमोदनाद्वारे सीतादेवीकथा ]
परदेशे स्थिता देवी त्वयैव रहिताऽधुना । विनामूभ्यां कुमाराभ्यामतिकष्टेन तिष्ठति ॥१७०॥ यद्यादिशसि तद् भर्तरानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पतिपुत्रोज्झिता सती ॥१७१॥ रामः किञ्चिद् विचिन्त्योचे सीतेहानीयते कथम् ? । लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् ॥१७२।। प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः ॥१७३॥ एवमस्त्वित्युदित्वा ते पूर्या बहिरकारयन् । विशालान् मण्डपानुच्चैस्तदन्तर्मञ्चधोरणीः ॥१७४॥ तेषु चोपाविशन् भूपाः पौरामात्यादयोऽपि च । ते बिभीषण-सुग्रीवप्रमुखाः खेचरा अपि ॥१७५।। ततो रामाज्ञयोत्थाय पुण्डरीकपुरे रयात् । गत्वा नत्वा च वैदेहीमित्युवाच कपीश्वरः ॥१७६।। त्वत्कृते प्रैषि रामेण विमानं देवि ! पुष्पकम् । इदानीमिदमध्यास्स्व रामोपान्तमुपेहि च ॥१७७।। साप्यूचेऽद्यापि मेऽरण्यत्यागदुःखं न शाम्यति । तत् कथं राममायामि भूयो दुःखान्तरप्रदम् ? ॥१७८॥ नत्वा भूयोऽपि स प्राह मा कुपस्तव शुद्धये । समं पौरेनूपैः सर्वैर्मञ्चारूढोऽस्ति राघवः ॥१७९॥ तेनेत्युक्ते पुराप्येषा जानकी शुद्धिकाङ्क्षिणी । आरुरोह विमानं तदयोध्यामाजगाम च ॥१८०॥ महेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा । दत्तार्घा लक्ष्मणेनैत्य नमश्चके नृपैरपि ॥१८१॥
15