________________
३८४]
[विवेकमञ्जरी
10
त्यागात् प्रभृति सीताया वृत्तान्तं नारदोऽखिलम् । पुत्रयुद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥१५८।। रामोऽथ विस्मयव्रीडाखेदहर्षसमाकुलः । मुमूर्छ चन्दनाम्भोभिः सिक्तः सञ्ज्ञामवाप च ॥१५९।। लक्ष्मणेन सहोदश्रुः पुत्रवात्सल्यपूरितः । जगाम रामो लवणाङ्कशयोः सन्निधौ जवात् ॥१६०।। स्यन्दनादवतीर्याशु विनीतौ लवणाङ्कुशौ । राम-लक्ष्मणपादेषु मुक्तास्त्रौ पेततुः क्रमात् ।।१६१।। तावालिङ्गय निजोत्सङ्गे निवेश्य च रघूद्वहः । मूनि चुम्बन रुरोदोच्चैः शोकस्नेहवशंवदः ॥१६२॥ रामोत्सङ्गाद् निजोत्सङ्गं तावारोप्याथ लक्ष्मणः । चुम्बन् शिरसि बाहुभ्यां परिरेभेऽश्रुपूर्णदृक् ॥१६३।। अपरेऽपि हि भूपालाः सैन्ययोरुभयोरपि । प्रमोदन्ते स्म सम्भूय विवाहमिलिता इव ॥१६४॥ भामण्डलनृपाख्यातो वज्रजङ्घनृपोऽपि हि । ननाम राम-सौमित्री विनीतश्चिरपत्तिवत् ॥१६५॥ रामस्तमाललापैवं त्वं भामण्डलसन्निभः । पुत्रौ यो वर्धयंस्त्वं मेऽनैषीः काष्ठामिमां च यः ॥१६६।। इत्युक्त्वा पुष्पकारूढः पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत् पुरीम् ॥१६७|| पौरैरालोक्यमानश्च स्तूयमानश्च साङ्गजः ।
जगाम रामः स्वं धाम पुष्पकादुत्ततार च ॥१६८|| $$ अथ रामं सुमित्राभूः कपीश्वर-बिभीषणौ ।
हनुमानङ्गदश्चान्ये सम्भूयैवं व्यजिज्ञपन् ॥१६९॥
15