SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [३८३ गुणानुमोदनाद्वारे सीतादेवीकथा] श्रुत्वाऽकस्मात् पुरापान्ते तत्पारक्यमुपागतम् । सङ्गरायोदतिष्ठेतां ससैन्यौ राम-लक्ष्मणौ ॥१४६।। इतश्च तौ क्षणेनापि दोषमन्तौ लवणाङ्कुशौ । रामसैन्यमगाहेतामिन्द्रोपेन्द्राविवार्णवम् ॥१४७॥ पेततुर्यत्र यत्रैतौ वने मत्ताविव द्विपौ । रथी सादी निषादी वा न तत्रास्थाद् धृतायुधः ॥१४८॥ हतविद्रुतमेवं च रामसैन्यं विधाय तौ । राममस्खलितौ गत्वाऽयोधिषातां सलक्ष्मणम् ॥१४९॥ भ्राभ्यदर्कभ्रमकरं भ्रमयित्वाऽथ लक्ष्मणः । मुमोच कुपितश्चक्रमङ्कशाय जयेच्छया ॥१५०॥ आपतत् ताडयामासानेकशोऽस्त्रैस्तदशः । लवणोऽपि तथैवौच्चैर्न तु तत् प्रत्यहन्यत ॥१५१।। वेगेनापत्य तच्चक्र मङ्कशस्य प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगात् पुनर्विद्युदिवाम्बुदे ॥१५२॥ चिन्तयामासतुश्चैवं विषण्णौ राम-लक्ष्मणौ । किं शीरिशाङ्गिणावेतौ न त्वावामिह भूतले ? ॥१५३॥ नारदोऽत्रान्तरे तत्राभ्येत्य भामण्डलान्वितः । विहस्य निजगादेति खिन्नं रामं सलक्ष्मणम् ॥१५४॥ हर्षस्थाने विषादोऽयं युवयोः किं रघूद्वहौ ? । पुत्रात् पराजयो वंशोद्योतनाय न कस्य हि ? ॥१५५॥ सीताकुक्षिभवौ पुत्रौ तवेमौ लवणाङ्कशौ । त्वां द्रष्टुमागतावत्र युद्धव्याजाद् द्विषौ तु न ॥१५६।। अभिज्ञानमिदं तेऽत्र यच्चक्रं प्रबभूव न । मुधाऽभूद् भारतं चक्रं पुरा बाहुबलावपि ॥१५७।।
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy