________________
5
10
15
20
३८२ ]
जग्मतुः स्वगृहं वीरौ भूपर्वीरैर्वृताविमौ । प्रणेमतुश्च जानक्याश्चरणौ विश्वपावनौ ॥१३४॥ चुचुम्ब मूर्ध्नि तौ सीता स्नपयन्ती मुदश्रुभिः । राम-लक्ष्मणयोस्तुल्यौ भूयास्तमिति चावदत् ॥ १३५ ॥ ऊचतुर्वज्रजङ्गं तौ मातुल ! प्राक् त्वयाऽऽवयोः । मेने यानमयोध्यायामिदानीमनुतिष्ठ तत् ॥१३६॥ प्रयाणभम्भा वाद्यन्तां च दिशो बलैः । त्यक्ता येनावयोर्माता वीक्ष्यस्तस्याद्य विक्रमः ॥१३७॥ सीतापि सद्यो रुदती जगादेदं सगद्गदम् ।
वत्सौ ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? || १३८|| वीरौ पितृ-पितृव्यौ वां दुर्जयो सदामपि । यकाभ्यां निहतो रक्षःपतिस्त्रैलोक्यकण्टकः ॥ १३९॥ उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ ! विनीतीभूय तद् यातं 'पूज्ये हि विनयोऽर्हति' ॥१४०॥ ततस्तावेवमूचाते विनयः क्रियते कथम् ? | तस्मिन् वैरिपदं प्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥१४२॥ पुत्रौ तवावामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यास्तस्याप्येतत् त्रपाकरम् ॥१४२॥ आनन्दजनकं तस्य जनकस्यापि दोष्मतः । युद्धाह्वानं तु युज्येत कुलद्वयशस्करम् ॥१४३॥ अभिधायेति सीतायां रुदत्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरीं प्रति ॥ १४४ ॥ क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतौ दिशः । तावूषतुरुपायोध्यं योद्धुकामौ महाभूजौ ॥ १४५ ॥
[विवेकमञ्जरी