________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
वज्रजङ्घो निषण्णेषु राजसूवाच नारदम् । अङ्कुशाय पृथुर्दास्यत्यसौ कन्यां निजां मुने ! ॥१२२॥ लवणाङ्कशयोर्वंशमस्मत्सम्बन्धिनोऽस्य तत् । आख्याहि ज्ञातजामातृवंशो येनैष तुष्यति ॥ १२३॥ अथोचे नारदः स्मित्वा वंशं को वेत्ति नानयोः ? | यस्योत्पत्त्यादिकन्दः स भगवान् वृषभध्वजः ॥ १२४॥ पौलस्त्यवधनाट्यैकसूत्रधारौ घरातले ।
को वेत्ति नानयोस्तातौ दक्षिणौ राम-लक्ष्मणौ ? ॥ १२५ ॥ गर्भस्थयोरप्ययोरयोध्यालोकजन्मनः ।
निर्वादाच्चकितेनोच्चैस्त्यक्ता रामेण जानकी ॥ १२६ ॥ अथाङ्कुशो हसित्वोचे ब्रह्मन् ! न खलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥१२७॥
भूयांसि ह्यपवादस्य कारणानि निराकृतौ । भवन्ति तत्र किन्त्वेतद् विद्वानपि चकार सः ॥१२८॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ? ॥१२९ ॥ मुनिरूचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या पूरितः षष्टियुग्योजनशतं खलु ॥१३०॥ वज्रजङ्घमथोवाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्र गत्वावां प्रेक्षितुं राम-लक्ष्मणौ ॥१३१॥ प्रतिपद्य स तद्वाचमङ्कुशं पर्यणाययत् । महोत्सवात् पृथो राज्ञः पुत्र्या कनकमालया ॥१३२॥ वज्रजङ्घ–पृथुभ्यां तावन्वितौ लवणाङ्कुशौ । साधयन्तो बहून् देशान् पुण्डरीकपुरं गतौ ॥१३३॥
[ ३८१
5
10
15
20