SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ३८० ] तावधीताखिलकलौ प्रपेदाते च यौवनम् । नूतनाविव चन्द्रार्काविन्दोपेन्द्राविवाथवा ॥११०॥ वज्रजङ्घः शक्तिचूलां पुत्रीं लक्ष्मीवतीभवाम् । कन्या द्वात्रिंशतं चान्या लवणेनोदवाहयत् ॥१११॥सोऽङ्कशाय ययाचे तु पृथ्वीपुरपतेः पृथोः । जाताममृतवत्याथो कन्यां कनकमालिकाम् ॥११२॥ वंशो न ज्ञायते यस्य तस्मै स्वदुहिता कथम् ? | दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥ ११३॥ वज्रजङ्गस्तदाकर्ण्य तं क्रोधादभ्यषेणयत् । परैरतिबलैर्वज्रजङ्घसैन्यं त्वभज्यत ॥११४॥ संकुद्धौ मातुलचमूभङ्गेन लवणाङ्कशौ । निरङ्कुशाविव गजौ प्रणिघ्नन्तावधावताम् ॥११४॥ तयोरोजस्विनो रंहो मनागपि न सेहिरे । प्रतिकूला भुजभृतो द्रुमा भिद्योययोरिव ॥ ११६ ॥ अभज्यत ससैन्योऽपि पृथुर्यावद् नरेश्वरः । ऊचतुस्तावदेवं तौ विस्मरौ रामनन्दनौ ॥११७॥ अपरिज्ञातवंशाभ्यामप्यावाभ्यामिहाहवे । विज्ञातवंशजा यूयं पलायध्वे कथं नु भो ? ॥११८॥ इति तद्वचनं श्रुत्वा वलित्वा पृथुरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणामुना मया ॥ ११९ ॥ सन्धानं वज्रजङ्खेन समक्षं भूभुजां ततः । चक्रे पृथुनृपः पुत्र्याः स्पृहयन्नङ्कुशं वरम् ॥१२०॥ शिबिरं न्यस्य तत्रास्थाद् वज्रजङ्घनरेश्वरः । आगाच्च नारदमुनिः सच्चक्रे तेन चोच्चकैः ॥१२१॥ [विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy