SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [विवेकमञ्जरी ३७८] "राजाप्येवभाषिष्ट मा भैषीस्त्वं मनागपि । तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे स्वसः ! ॥८६॥ का त्वं कस्त्वामिहात्याक्षीद् निघृणेभ्योऽपि निघृणः । आख्याहि मा स्म शङ्किष्ठास्त्वत्कष्टेनास्मि कष्टितः ॥८७॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याब्रवीदिति । गजवाहनराजस्य बन्धुदेव्याश्च नन्दनः ॥८८॥ नृपतिर्वज्रजङ्घोऽयं पुण्डरीकपुरेश्वरः । महार्हतो महासत्त्वः परनारीसहोदरः ॥८८॥ गजान् ग्रहीतुमचैत्य कृतार्थीभूय च व्रजन् । त्वदुःखितोऽत्रागाद् दुःखमाख्याहि तद् निजम्" ॥१०॥ सीतापि स्वस्य वृत्तान्तं विश्वस्याभिदधेऽखिलम् । रुदती रोदयन्ती तौ कृपालु राज-मन्त्रिणौ ॥११॥ निर्व्याजो व्याजहारैवं राजा धर्मस्वसासि मे । एकधर्मे प्रपन्नाः स्युमिथो बन्धव एव यत् ॥१२॥ मम भामण्डलस्येव भ्रातुरेहि तदौकसि । स्त्रीणां पतिगृहादन्यत् पदं भ्रातृनिकेतनम् ॥१३॥ रामोऽपि लोकवादेन त्वामत्याक्षीद् न तु स्वयम् । पश्चात्तापेन सोऽप्यद्य मन्ये त्वमिव कष्टभाक् ॥९४|| गवेषयिष्यत्यचिरात् त्वां सोऽपि विरहातुरः । चक्रवाक इवैकाकी ताम्यन् दशरथात्मजः ॥१५॥ इत्युक्त्वा निर्विकारेण तेनामेत्यभिधायिनी । सीता रुरोह शिबिकां सद्यस्तदुपनायिताम् ॥९६।। पुण्डरीकपुरं चागाद् मिथिलामपरामिव । अस्थाच्च सततं धर्मशीला तद्दत्तवेश्मनि ॥९७॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy