________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
॥७५॥
सेनानीरवदद् दूरेऽयोध्या किं पृष्टया तया ? | उग्राज्ञस्य च रामस्य पर्याप्तं देवि ! वार्त्तया ॥७३॥ इति श्रुत्वापि सा रामभक्ता भूयोऽप्यभाषत । भद्र ! मद्वाचिकमिदं शंसे रामस्य सर्वथा ॥७४॥ "यदि निर्वादभीतस्त्वं परीक्षां नाकृथाः कथम् ? | शङ्कास्थाने हि सर्वोऽपि दिव्यादि लभते जनः इत्युक्त्वा मूच्छिता भूमौ पतितोत्थाय चाब्रवीत् । मया विना कथं रामो जीविष्यति हतास्मि हा ? ॥७७॥ रामाय स्वस्त्यथाशंसेराशिषं लक्ष्मणाय च । शिवास्ते सन्तु पन्थानो वत्स ! गच्छोपराघवम् ॥७८॥ इयमेव सतीधुर्या भक्ता दृश्यपि प्रभौ । चिन्तन्निति सेनानीर्नत्वैनां ववले बलात् ॥७९॥ $$ अथ सीता भयोद्भ्रान्ता बभ्रामेतस्ततो वने । आत्मानमेव निन्दन्ती पूर्वदुष्कर्मदूषितम् ॥८०॥ भूयो भूयश्च रुदती स्खलन्ती च पदे पदे । गच्छन्ती पुरतोऽपश्यद् महासैन्यं समापतत् ॥८१॥ मृत्युजीवितयोस्तुल्याशया वीक्ष्यापि तद्वलम् । सीता तस्थावभीतेव नमस्कारपरायणा ॥८२॥ तां दृष्ट्वा बिभयाञ्चक्रुः सैनिकाः प्रत्युतापि ते । का नाम दिव्यरूपेयं भूस्थितेत्यभिभाषिणः ॥८३॥ सीताया रुदितं श्रुत्वा स्वरवित् तच्चमूनृपः । इयं महासती कापि गुर्विणी चेत्यवोचत ॥८४॥ कृपालुः स महीपालः सीतोपान्तं जगाम च । सीताप्याशङ्किता तस्य स्वं नेपथ्यमढौकयत् ॥८५॥
[ ३७७
5
10
1117
15
20