SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ [३७५ 10 गुणानुमोदनाद्वारे सीतादेवीकथा] सोचे कीदृग् वराकस्त्वं रामेण रमणी निजा । षण्मास्या रावणगृहादानीयान्तःपुरी कृता ॥४९॥ मुहूर्त्तमात्रमपि न क्षमते तु भवान् मम । सोऽप्यूचे क्षमतां रामः स्त्रीजितोऽहं तु नेदृशः ॥५०॥ श्रत्वेति जानकीजानिः संतापी हृद्यचिन्तयत् । स्त्रीकृते धिक्कृतं नीचेभ्योऽपि रामः शृणोति हा ॥५१॥ जाने महासती सीता स्त्रीलोलः स च रावणः । कुलं च निष्कलङ्क मे हा रामः किं करोत्वसौ ? ॥५२।। ध्यात्वेति गृहमागत्य सीतां त्युक्तुमना बलः । मन्त्रयामास सौमित्रि तत्तथाख्यानपूर्वकम् ॥५३॥ ऊचे च लक्ष्मणो लोकगिरा सीतां स्म मा त्यज । यथा तथापवदिता यदबद्धमुखो जनः ॥५४॥ लोकः सौराज्यस्वस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत् तन्नोपेक्षणीयः स भूभुजाम् ? ॥५५॥ रामोऽप्यूचे सत्यमेतदीदृग्लोकः सदापि हि । सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विना ॥५६॥ इत्युक्त्वोवाच सेनान्यं कृतान्तवदनं बलः । अरण्ये त्यज्यतां क्वापि सीतेयं गर्भवत्यपि ॥५७॥ पतित्वा रामपादेषु बभाषे लक्ष्मणो रुदन् । सीतादेव्या महासत्यास्त्यागोऽयमुचितो न हि ॥५८॥ नातः परं त्वया वाच्यमिति रामेण भाषिते । लक्ष्मणोऽगाद् निजावासं वासश्छन्नमुखो रुदन् ॥५६॥ रामोऽन्वशाच्च सेनान्यमरे सीतां वने नय । कृत्वा सम्मेतयात्राश्छद्म तस्याः स दोहदः ॥६०॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy