________________
३७४]
[विवेकमञ्जरी स्वामिन्नवश्यविज्ञप्यं यदि विज्ञप्यते न हि । वञ्चितः स्यात् तदा स्वामी विज्ञप्तं चातिदुःश्रवम् ॥३७॥ देव ! देव्यां प्रवादोऽस्ति घटते दुर्घटोऽपि हि। युक्त्यापि यद् घटामेति श्रद्धेयं तद् मनीषिणा ॥३८॥ तथा हि जानकी हत्वा रावणेन रिंसुना । एकैव निन्ये तद्वेश्म न्यवात्सीच्च चिरं प्रभो ! ॥३९॥ सीता रक्ता विरक्ता वा संवित्त्या वा प्रसह्य वा ।। स्त्रीलोलेन दशास्येन नूनं स्याद् भोगदूषिता ॥४०॥ लोकोऽपि प्रवदत्येवं प्रवदामो वयं तथा । युक्तियुक्तं प्रवादं तद् मा सहस्व रघूद्वह ! ॥४१॥ आजन्मोपार्जितां कीर्ति निजं कुलमिवामलम् । प्रवादसहनेन त्वं मा देव ! मलिनीकृथाः" ॥४२॥ कलङ्कस्यातिथीभूतां सीतां निश्चित्य राघवः । सद्योऽभूद् दुःखतूष्णीक: "प्रायः प्रेमातिदुस्त्यजम्" ॥४३|| धैर्यमालम्ब्य काकुत्स्थस्तानुवाच महत्तरान् । साधु व्यज्ञपि युष्माभिर्न भक्ताः क्वाप्युपेक्षकाः ॥४४॥ न स्त्रीमात्रकृते जातु सहिष्येऽहमिहायशः । . इति रामः प्रतिज्ञाय विससर्ज महत्तरान् ॥४५॥ निशायामथ काकुत्स्थः प्रच्छन्नोऽसिलतासखः । जनापवादं जानक्याः स्वयं श्रोतुं पुरेऽभ्रवत् ॥४६॥ यावच्चर्मकतः शालासमीपे कस्यचिद ययौ । तावदस्याङ्गना प्राप चिरेण प्रतिवेश्मनः ॥४७॥ युगमम् ।। पादयोwङ्गकेनैतां हत्वा चर्मकृदूचिवान् । अरे ! त्वं कियती वेलामस्था रण्डे ! निवेदय ॥४८॥
15