________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
धर्मस्य ते च माहात्म्यात् सर्वं भावि शुभं प्रभो ! | इत्यूचे जानकी देवी तदा गर्भ बभार च ॥ २५ ॥ सम्मेतशैलयात्रायै जातं दोहदमात्मनः ।
रामाय सा तदाचख्यौ सोऽपि तत्पूर्त्तिमिष्टवान् ॥२६॥ $$ अत्रान्तरे च सीताया दक्षिणं चक्षुरस्फुरत् । आचचक्षे च सद्योऽपि साशङ्का राघवाय सा ॥२७॥ नेदं साध्विति रामेणाख्याते सीताऽब्रवीदिति । किं रक्षोद्वीपवासाद् मे संतुष्टोऽद्यापि नो विधि: ? ॥२८॥ त्वद्वियोगभवाद् दुःखाद् दुःखमद्यापि मेऽधिकम् । किमसौ दास्यति विधिर्निमित्तं नैतदन्यथा ॥२९॥ रामोऽपि तामुवाचैवं देवि ! मा खेदमुद्वह । अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे ॥३०॥ तद् गच्छमन्दिरे स्वस्मिन् देवानामर्चनां कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥ ३१॥ सीतापि सदने गत्वा संयमेन महीयसा । अर्हतोऽ पूजयद् दानमवदातवती ददौ ॥३२॥ रघुनाथमथाजग्मू राजधानीमहत्तराः । यथाभूतपुरीवृत्तकीर्त्तनैकाधिकारिणः ॥ ३३ ॥ "नत्वा रामाय ते तस्थुः कम्पमानाङ्गयष्टयः । न तद् विज्ञपयामासू ‘राजतेजो हि दुस्सहम्' ||३४|| तानूचे रामभद्रोऽपि भो भोः पुरमहत्तराः ! । अभयं वो ब्रुवाणानामेकान्तहितवादिनाम् ॥३५॥ तेष्वाद्यः सर्वसंवित्त्या विजयाख्यो महत्तरः । इति विज्ञपयामास सावष्टम्भः प्रभोगिरा ||३६|
[ ३७३
5
10
15
20