SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३७२] [विवेकमञ्जरी पादयोः पतितं रामो भरतं साश्रुलोचनम् । परिरेभे समुत्थाय मूनि चुम्बन् मुहुर्मुहुः ॥१३॥ शत्रुघ्नमपि पादान्ते लुठन्तं रघुपुङ्गवः । उत्थाप्य परिमृज्य स्वांशुकेन परिषस्वजे ॥१४|| ततो भरत-शत्रुघ्नौ नमन्तौ लक्ष्मणोऽपि हि । प्रसारितभुजो गाढमालिलिङ्ग ससंभ्रमम् ।।१५।। अथो भरत-शत्रुजौ सास्रौ सीतां प्रणेमतुः । सापि तौ प्रीणयामास सर्वसंपज्जुषाशिषा ॥१६॥ तूर्येषु व्योम्नि भूमौ च वाद्यमानेषु भूरिशः । अयोध्यां राम-सौमित्री प्रीतौ प्राविशतामथ ॥१७॥ सोत्कण्ठमुन्मुखैः पौरैर्मयूरैर्मुदिराविव । वीक्ष्यमाणावनिमिषैः स्तूयमानौ च साश्रुभिः ।।१८।। पौरीभिर्दीयमानार्षी क्रियमाणनिरुञ्छनौ । स्वं प्रासादं प्रसन्नास्यौ जग्मतू राम-लक्ष्मणौ ॥१९॥ रामोऽपराजितां देवीं मातृवर्गमथापरम् । नमश्चक्रे ससौमित्रिस्ताभिराशीभिरैध्यत ॥२०॥ अथ सीता नता श्वश्रूजनायाश्रूणि मुञ्चते । तेनाभिनन्दिता वत्से ! भूया वीरप्रसूरिति ॥२१॥ सौमित्रेरर्धचक्रि त्वाभिषेकेऽथ कृते हली। . रामो व्यसृजदात्मात्मदेशेभ्यः सुहृदो नृपान् ।।२२।। सीतैकदा ऋतुस्नाता स्वप्ने दृष्टवती निशि । च्युतौ विमानाच्छरभौ प्रविशन्तौ निजानने ॥२३॥ रामोऽप्याख्यत् तयाऽऽख्याते वीरौ ते भाविनौ सुतौ । च्युतौ विमानाच्छरभौ यत्तु तद् न मुदे मम ॥२४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy