________________
[३७१
गुणानुमोदनाद्वारे सीतादेवीकथा] F६ अतो दाशरथी लङ्काराज्ये न्यस्य बिभीषणम् ।
आत्मदर्शनसुप्रीतां कर्तुं सीतामगच्छताम् ॥१॥ सा देवरमणोद्याने रामं वीक्ष्य सलक्ष्मणम् । जुगोप लज्जितात्मानं तन्वी वेण्यातिरूक्षया ॥२॥ प्रीतिफुल्लतनोरस्या भिन्नकङ्कणकैतवात् । स्पर्धमानस्तदास्येन तदेन्दुः शटितोऽपतत् ॥३॥ इयं महासती सीता जयत्विति नभोऽङ्गणे । तदानीं सिद्धगन्धर्वाः स्फुरत्तोषमघोषयन् ।।४।। लक्ष्मणोऽश्रृजलैः प्रीतमानसः क्षालयन्निव । सीतादेव्या नमश्चक्रे क्रमाभ्भोजद्वयीं तदा ॥५॥ चिरं जय चिरं जीव चिरं नन्द मदाशिषा । इति ब्रुवाणा वैदेही जघ्रौ शिरसि लक्ष्मणम् ॥६॥ भामण्डलो नमश्चके सीतां सापि तमञ्जसा । आशिषा नन्दयामास महासाध्वीशिरोमणिः ॥७॥ स्वनामाख्यानपूर्वं च लङ्केश्वर-कपीश्वरौ । हनुमानङ्गदोऽन्येऽपि नेमुर्जनकनन्दिनीम् ।।८।। पार्वणेन शशाङ्केन चिरात् कुमुदिनीव सा। . रामेण जानकी रेजे विकस्वरमुखी तदा ॥९॥ धर्मार्थाविव सत्कीर्त्या सीतयाऽथ समन्वितौ । आरुह्य पुष्पकं प्रीतौ प्रतस्थाते रघूद्वहौ ॥१०॥ समदोद्ग्रीवभामण्डल-बिभीषणैः । अन्वीयमानौ नगरीमयोध्यामीयतुश्च तौ ॥११॥ अभ्येत्य भरतः प्रीतः सानुजोऽप्यतिरंहसा । ननाम राममुद्दामभक्त्या स न्यस्तमस्तकः ॥१२॥
20