________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
इत्युक्त्वाऽऽस्फाल्य धनुर्यावद् रामोऽभि रावणं चलितः । तावद् बिभीषणेन प्रोचे नत्वा सबाष्पेन ॥ १३२॥
संरम्भं त्यज नायक ! मा भज सौमित्रिशक्तिहतिखेदम् । शक्त्याहतोऽपि जीवति यावद् भानूदयं पुरुषः ॥१३३॥ तद् मन्त्रतन्त्रविधिना प्रतिकाराय प्रयत्यतां नाथ ! यावद् विभावरीयं विगलत्याशेव नास्माकम् ॥१३४॥ रामेणामेत्युक्ते सुग्रीवाद्यास्तु राघवोपरितः । संनद्धाः सप्त चमूवप्रांस्तेनुश्चतुर्द्वारान् ॥१३५॥ अत्रान्तरे समेत्य प्रतिचन्द्रः खेचरः समाचख्यौ । स्वयमनुभूतं निर्गममुच्चैः शक्तेर्विशल्यातः ॥१३६॥ श्रुत्वेत्थं रामगिरा भामण्डलहनुमदङ्गदाः सपदि । गत्वाऽऽनिन्युर्दोण क्षोणीधरतो विशल्यां ताम् ॥१३७॥ तस्याः स्नानजलौघैरुक्षणतस्तत्क्षणाज्ज्वलन्त्युच्चैः । शक्तिर्निरगाल्लक्ष्मणहृदयादुदगाच्च मार्तण्डः ॥ १३८॥ मङ्गलतूर्यनिनादप्रमदः क्ष्वेडाकरम्बितः प्रातः । समजायत कपिसैन्ये रावणवधनाट्यनान्दीव ॥१३९॥ इत्थं राघवकटके पौलस्त्यः प्रमदकलकलं श्रुत्वा । क्रुद्धो योद्धुमचालीदपशकुनैर्वार्यमाणोऽपि ॥ १४०॥ भूयोऽपि राम-रावणबलयोरजनिष्ट समरसंरम्भः । उद्भटसुभटभुजाहतिरवचकितदिगन्तदन्तीन्द्रः || १४१॥ कुर्वन्तो जयकेलिं कपिवीराः समरकानेन तस्मिन् । रक्षःशीर्षाण्युञ्चैरपातयंस्तूलफलानीव ॥१४२॥ कृतोड्डीना ज्वालावती रजस्तमसि वैरिवदनाली । दीपालयपालिरिवाराजत रामं जयश्रियो द्रष्टुम् ॥१४३॥
[ ३६९
5
10
15
20