SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे सीतादेवीकथा ] भग्नेऽरिभिः स्वसैन्ये सामर्षौ दशमुखस्य सेनान्यौ I हस्त-प्रहस्तसंज्ञौ नल-नीलाभ्यामयुध्येताम् ॥१०७॥ कुन्ताकुन्ति गदागदि विधाय चिराममरवीक्षितं समरम् । हस्तो नलेन निहतो नीलेन पुनः प्रहस्तोऽथ ॥१०८॥ स्वयमथ चचाल योद्धुं संनद्धो दशाननो बलसमुद्रः । रणतूर्यनादतर्जितघनगर्जितभीषणः सपदि ॥१०९॥ रामोऽभ्यषेणयदमुं दुर्दमभुजदण्डचण्डिमारोपम् । निःस्वानशङ्खभेरीरवोपहूतारिजयलक्ष्मीः ॥११०॥ तुल्यं मिलितयोस्तयोरथो रणः सैन्ययोरभूदुभयोः । सभ्यीभूय त्रिदशैर्निरीक्ष्यमाणो द्युतलस्थैः ॥१११॥ रामोऽथ कुम्भकर्णं रावणमथ लक्ष्मणो नलः शम्भुम् । कुम्भं च पवनतनयः किष्किन्धेशः सुमालाख्यम् ॥११२॥ भामण्डलश्च केतुं नीलः सिंहाख्यमङ्गदश्च मयम् । इत्यपरानप्यसुरान् कपयोऽरौत्सुः परे परितः ॥ ११३॥ शस्त्रैरस्त्रैः सुचिरं योधं योधं भटाः प्रतिभटांस्तान् । जीवग्राहं धृत्वा निन्यू रामाज्ञया शिबिरम् ॥११४॥ दृष्ट्वा तद् दशवदनः क्रुद्धः शूलं बिभीषणेऽमुञ्चत् । तत् कणशोऽकृत विशिखैः सौमित्त्रिस्त्वन्तरालेऽपि ॥११५॥ सौमित्त्रये दशास्यः शक्त्यस्त्रं प्रौढमत्सरो मुमुचे । तेनायमुरसि भिन्नश्छिन्नः शाखीव भुवि पतितः ॥ ११६ ॥ सौमित्र शक्तिते रामानीकं सशोकमजनिष्ट | तदनीश इव विलोकितुमगमद् द्वीपान्तरं तरणिः ॥११७॥ जितकाशीव दशास्यो विवेश लङ्कां निशम्य सीतेति । वज्राहतेव मूर्च्छानिमीलिताक्षी पपातोर्व्याम् ॥११८॥ [ ३६७ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy