________________
३६६]
[विवेकमञ्जरी अत्रान्तरे दशास्यं नत्वा प्रोचे बिभीषणः सदसि । देव ! प्रसीद विमृश क्षणमिति वचनं शुभोदकम् ॥१५॥ लोकद्वितयविरुद्धं परदारापहरणं यदविमृश्य । ... चक्रे पूर्वं भवता कुलमखिलं लज्जितं तेन ॥१६॥ आदातुमात्मदयितामुपलङ्कमुपस्थितोऽद्य काकुत्स्थः । तत्कान्ताप्रत्यर्पणमातिथ्यं विधेहि तदमुष्मै ॥९७।। नूनं ग्रहीष्यति निजां गृहिणीं त्वत्तोऽन्यथापि काकुत्स्थः । निग्रहीष्यति च कुलं ते सकलं सकलङ्क ! सह भवता ॥९८॥ दूरे स्तां दाशरथी त्रिशिरःखरदूषणान्तकावेतौ । देवेन किं न हनुमान् दृष्टस्तत्पत्तिरेकोऽपि ? ॥९९॥ क्रुद्धो हितोपदेशाद् दशाननोऽधावताथ तं हन्तुम् । सोऽप्युत्तस्थौ योद्धं सदसः स्तम्भं समुत्पाट्य ॥१००॥ कुम्भकर्णेन्द्रजिद्भयां भूत्वा द्रुतमन्तरा तदानीं तौ । युद्धाद् निषिध्य नीतौ करिणाविव निजनिजं स्थानम् ॥१०१॥ मत्पुर्या निर्याहि स्वाश्रयघातिन्नरे कुलङ्गार ! । इत्थं दशास्यगदितो भेजेऽथ बिभीषणो रामम् ।।१०२॥ रिपुबन्धवेऽपि तस्मै रामोऽनुसृताय विश्रुतविवेकः । लङ्काराज्यममन्यत ‘सन्तो नतवत्सला यस्मात्' ॥१०३॥ हंसद्वीपादुदचलदथ बलसन्दोहपूरितदिगन्तः। . रामोऽकलङ्कजयनिधिरधिलङ्कमियाय चास्खलितः ॥१०४॥ दशकन्धरसेनान्यः शुकसारणसज्ञितास्तदा सर्वे । लङ्काया निःसृत्यायुध्यन्त मदोद्धराः कपिभिः ॥१०५॥ कपिभिः क्ष्वेडापूरितककुब्भिरभितोऽपि युध्यमानैस्तैः । मृगयूथमिव मृगेन्द्र रक्षोबलमखिलमक्षोभि ॥१०६।।