________________
३६४]
[विवेकमञ्जरी
10
विद्यातिरोहितवपुः सीतोत्सङ्गेऽथ मुद्रिकां हनुमान् । मुमुचे तां दृष्ट्वा साऽस्नपयत् प्रमदाश्रुतोयेन ॥७१॥ अपि तां जगाद ननु सखि ! मुद्रे ! कुशली सलक्ष्मणो रामः ? । आविर्भूय हनूमानूचे मातस्तदस्ति यद् वदसि ॥७२॥ आदिष्टः प्रभुणाहं रामेण तव प्रवृत्तिमधिगन्तुम् । तत्र गते मयि देवः समेष्यतीह च्छिदे द्विषतः ।।७३।। रोमाञ्चिता सबाष्पा सीता निजगाद वत्स ! कोऽसि त्वम् ? । पारावारमपारं लङ्घितवानसि च कथय कथम् ? ॥७४|| कश्चित् प्राणहितो मे प्राणिति वत्सेन लक्ष्मणेन सह । दृष्टस्त्वया च कुत्र स्थाने कालं च नयति कथम् ? ॥७५।। हनुमानथाह पवनजनयोरहमस्मि नन्दनो देवि ? | कपिखेचरविद्याऽम्बुधिमलङ्घयं गगनयानेन ॥७६।। सुग्रीवं तदरिवधात् पत्तीकृत्यात्मनोऽधिकिष्किन्धम् । तव विरहधाम रामः सलक्ष्मणोऽस्त्येव कुशलेन ॥७७॥ विद्याधरैर्महेन्द्रप्रमुखैः सममेत्य तावको भ्राता । भामण्डलोऽपि तद्वद् दुःखी तमुपासमानोऽस्ति ॥७८॥ रामेण प्रहितोऽहं कपिपतिसुग्रीवदर्शितो देवि ! । त्वत्प्रत्ययाय मुद्रां समर्प्य शुद्धि तवानेतुम् ॥७९॥ त्वत्तञ्चूडारत्नं त्वानायितमस्ति देवि ! देवेन । . मामत्र समायातं प्रत्येष्यति तेन येनायम् ॥८०॥ सकरुणावात्सल्यं सा जगाद चूडामणि ममादाय । व्रज वत्स ! तूर्णमत्र स्थितस्य कश्चित् तवानर्थः ॥८१॥ मा शङ्किष्ठा मातस्त्वं मयि वात्सल्यकातराऽनर्थम् । अस्येह राम-लक्ष्मणपत्तित्वं दर्शयिष्यामि ॥८२॥
15