________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
इत्युक्त्वा नत्वापि च रामं सद्यो विमानमधिरुह्य । लङ्कां गतो हनूमान् प्रविवेश बिभीषणावासे ॥५९॥ सत्कृत्यागमकारणमपृच्छ्यताभीर्बिभीषणेनायम् । हनुमानिति च बभाषे स्मितपुष्पाभ्यर्चितां वाचाम् ॥६०॥ दशवदनस्य यदि त्वं भ्रातेच्छसि चास्य यदि शुभोदर्कम् । तत् पत्नीं दाशरथेरेतस्माद् मोचयापहृताम् ॥६१॥ त्वद्भ्रातुर्बलिनोऽपि हि नूनं काराधृतान्तकस्यापि । रघुपुत्रपत्नीहरणं मरणं दशमस्तकस्यापि ॥६२॥ दशवदनबन्धुरूचे हनुमन् ! ननु साधु भाषितं भवता । सीतां मोचयितुं स्वाग्रजोऽयमग्रे मयाभिहितः ॥ ६३॥ भूयोऽपि सनिर्बन्धं निजबन्धुं नियतमर्पयिष्यामि । सीतां मुञ्चति यदि पुनधुनापि गतं न नः किमपि ॥ ६४ ॥ श्रुत्वेति पावनञ्जयिरुत्पत्य जगाम देवरमणवने । तत्राशोकानोकहस्तले स सीतामलोकत च ॥६५॥ रुदतीं वामकरस्थं लम्बालकपिहितमाननं दधतीम् । निःश्वासान् मुञ्चन्तीं विरहकृशां मलिनतरवसनाम् ॥६६॥ निरपेक्षां देहेऽपि ध्यायन्तीमपि च राम रामेति । निष्कम्पां परमवलयं पश्यन्तीं योगिनीमिव ताम् ॥६७॥ विशेषकम् ॥
दध्यौ चैवं हनुमानये ! पुरस्ताद् महासती सीता । अस्या दर्शनमात्रात् पावित्र्यं कस्य नो भवति ? ॥६८॥ अस्या वियोगविधुरः स्थानेऽन्वहमेव खिद्यते रामः । ईदृक् कस्य कलत्रं सुरूपमनुरूपशीलगुणम् ? ॥६९॥ लङ्केश्वरो वराकः स्फुटमिह निपतिष्यते द्विधाप्येषः । रामप्रतापमहसा स्वपापलीलायितेनापि ॥७०॥
[ ३६३
5
10
15
20