________________
३६२]
[विवेकमञ्जरी
10
तद् दूतोऽद्भूतवचनः प्रस्थाप्यस्तत्र कश्चन समर्थः । सा दुष्प्रवेशविगमा लङ्का हि श्रूयते विहिता ॥४७॥ दूतेन कार्यसिद्ध्यै गत्वा वाच्यो बिभीषणस्तत्र । कोणपकुले किलास्मिन् निखिलेऽपि स नीतिमानेकः ॥४८॥ लघु मोचयितुं सीतां बोधयिता रहसि रावणं सोऽपि । तेनावज्ञातोऽयं देव ! त्वां नियतमभिसर्ता ॥४९॥ रामेणानुमतेऽस्मिस्तेषां मन्त्रेऽथ कपिमहीनाथः । प्रेष्यादित्यपुरे श्रीभूति हनुमन्तमाह्वास्त ॥५०॥ राम लक्ष्मणकपिपतिभामण्डलमुख्यपरिवृतं सदसि । हनुमानुपेत्य भानुप्रतिमरुचिः प्रणमति स्माथ ॥५१॥ देवायमाञ्जनेयः पवनञ्जयसूनुरतुलबलकलितः । विधुरे परमो बन्धुर्विनयी मम जीवितं राज्ये ॥५२॥ अपरोऽस्य नास्ति तुल्यस्तदमुं सीताप्रवृत्तिलाभार्थम् । प्रहिणु स्वामिन्निति च प्रोवाच कपीश्वरो रामम् ॥५३॥ युगमम् ॥ रामोऽभ्यधत्त हनुमन् ! सम्प्रत्यप्रतिम ! याहि लङ्कायाम् । सीतां गवेषयेरिह मदूमिकामर्पयेस्तस्यै ॥५४॥ तच्चूडारत्नभिज्ञानं प्रत्यानये: पुनश्चात्र । मद्वाचिकमपि चैतज्जनकभुवे सन्दिशेस्तस्यै ॥५५॥ . देवि ! त्वया वियुक्तो ध्यायंस्त्वामेव वर्तते रामः । सुभगां त्वदधिष्ठानादुत्पश्यन् नैऋती च दिशम् ॥४६॥ मद्विरहकातरा त्वं प्राणान् । प्राणेशि मा ! परित्याक्षीः । सौमित्रिनिहतं त्वं द्रक्ष्यसि रक्षःपति सपदि ॥५७।। हनुमानपीदमूचे स्वामिन्नाज्ञां विधाय ते यावत् । एमि त्रिकुटपुस्तिष्ठेस्तावत् त्वमत्रैव ।।५८।।
15