________________
[३६१
गुणानुमोदनाद्वारे सीतादेवीकथा]
सीतोदन्तमिमं तं दाशरथिः समधिगम्य मुदितोऽस्मात् । तं रत्नजटिनमुच्चैर्भूयो भूयः समालिङ्गत् ॥३५।। भूयो भूयः सीतोदन्तः पप्रच्छ राघवो जटिनम् । सोऽपि तत्प्रीतिहेतोभूयो भूयस्तमाचख्यौ ॥३६।। सौत्सुक्यं दाशरथिः सुग्रीवादीनथेति पप्रच्छ । दूरे कियतीतः सा कथयत रक्षःपुरी लङ्का ? ॥३७॥ तेऽप्यूचुः किं नु तया पुर्या दूरस्थया निकटयापि । सर्वे तृणवट् यद्वयमिह विश्वजितो दशमुखस्य ॥३८॥ रामोऽभ्यधत्त कृतमिह जेयाजेयत्वचिन्तया तस्य । दर्शयत कवलं तं सौमित्रास्यते पश्चात् ॥३९॥ सौमित्रिराह कः किल स रावणः पौरुषं क्वचन तस्य । कान्दविकशुनक इव यश्छलेन पापी चकारैवम् ॥४०॥ क्षत्राचारेणाहं तस्य शिरः समिति पातष्यामि । सभ्यीभूय भवद्भी रणनाटकमीक्षणीयं तु ॥४१॥ अथ जाम्बवानवोचद् भवत्सु हन्तोपयुज्यते सर्वम् । किन्तु दशवदनकदनः स यः करे करति कोटिशिलाम् ॥४२।। अस्तेवमिति वदन्तं निन्युः कपयोऽथ लक्ष्मणं तत्र । यत्रास्ते कोटिशिलोदपाटि चानेन सा तरसा ॥४३॥ आशासन्तो देवाः सौमित्रि विचिकिरुस्तदा कुसुमैः । कपयः पुनरानिन्युः संजातप्रत्ययाः स्वपुरीम् ॥४४॥ कपिवृद्धा जगदुरिदं युष्मत्तो रावणस्य खलु मरणम् । दूतः प्रेष्यस्त्वादौ द्विषत्सु महतामियं नीतिः ॥४५॥ संदेशहारकैरपि सिध्यति यदि कार्यमहितमभि विहितैः । उद्योगेन तदानीमुद्वेगो भूभुजां क इव ? ॥४६॥