________________
३६०]
[विवेकमञ्जरी
सौमित्रिणेति रामो विज्ञप्तस्तूर्णमवटलङ्कायाम् । गत्वा विराधमेनं न्यवेशयत् पैतृके राज्ये ॥२३॥ सुन्दः खरस्य सूनुश्चन्द्रणखा चाप्यवटलङ्कायाः । नंष्ट्वा रामभयेनागमत् तदा रावणं शरणम् ॥२४॥ किष्किन्धायां दुर्धरशक्त्यभिरामः परेधुरथ रामः । विटसुग्रीवं हत्वा सुग्रीवं स्थापयामास ॥२५॥ अष्टादशाथ कन्या धन्या रूपेण दातुमात्मीयाः । सुग्रीवः कपिनाथो दाशरथिं प्रार्थयामास ॥२६॥ स्मित्वा जगाद रामः सखे ! तवेच्छामि सत्कृति नान्याम् । सीताप्रवृत्तिमेकामानेतुं सम्प्रति यतस्व ॥२७॥ इति रामेण कपीन्द्रः स्वयमादिष्टः स्वसैन्यकपिवीरान् । सीताप्रवृत्तिहेतोदिशि दिशि गणशः प्रवर्तयामास ॥२८॥ दाशरथेरिव मूर्ता मनोरथाः सर्वतोऽपि ते कपयः । नगनगरविपिनवाधिषु पश्यन्तो जानकी चेरुः ॥२९॥ सुग्रीवः स्वयमगमत् कम्बुद्वीपं दिशैकया गच्छन् । रत्नजटी विद्याभृद् भूपतिना तेन दृष्टोऽत्र ॥३०॥ सुग्रीवस्तमपृच्छद् विद्याभृत् त्वमसि रत्नजटिनामा । तद् व्योमयानविषयेऽलस इव किमु दृश्यते कथय ? ॥३१॥ सोऽभाषिष्ट समस्ता विद्या मे संहृता दशास्येन । समुदस्थायिषि यदहं सीतां हरतोऽस्य युद्धाय ॥३२॥ कपिकेतुनाऽथ नीतो रत्नजटी रामभद्रपादान्ते । विज्ञापति इति चैष व्यजिज्ञपज्जानकीशुद्धिम् ॥३३॥ हा राम ! राम ! लक्ष्मण ! भामण्डल ! जनक ! तात ! हा मातः ! । इति विलपन्ती देवीमहरद् दशकन्धरः स्वामिन् ! ॥३४॥
15