SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे सीतादेवीकथा ] दृष्ट्वा मूच्छितमग्रे रामं सौमित्रियकुलीभूतः । सिञ्चन्न श्रुजलैस्तलनीलदलैर्वीजयामास ॥११॥ मूर्च्छार्च्छन्तेऽथ सुमित्त्रातनयमपश्यन् पुरः स्थमपि रामः । सीतावियोगखेदग्रहिलोऽवददन्तरिक्षेऽदः ॥ १२॥ भ्रान्तं वनमिदमखिलं तथापि दृष्टा न जानकी मयका । सा दृष्टा युष्माभिः किमिति नहि ब्रूथ वनदेव्यः ! ? ॥१३॥ विपिने श्वापदरक्षोयक्षोरगभूतभीषणेऽमुष्मिन् । एकाकिनीं विहाय प्रियामहं लक्ष्मणायाऽगाम् ॥१४॥ रक्षःसहस्रघोरे संयत्येकं च लक्ष्मणं मुक्त्वा । भूयोऽप्यहमत्रागां धिग् धिक् कुधियो धियं तद् मे ॥१५॥ हा ! वैदेहि ! मयाऽस्मिन् कान्ते ! कथमुज्झिताऽसि कान्तारे ? | हा वत्स ! लक्ष्मण ! कथं मुक्तोऽसि च सङ्कटे द्विषताम् ? ॥१६॥ एवं विलपन् रामो न्यपतत् पुनरपि मूच्छितो भूमौ । क्रन्दद्भिः करुणतरं पक्षिभिरपि वीक्ष्यमाणोऽयम् ॥१७॥ सौमित्त्रिरपि गद्गदमवोचदार्यार्य ! कथय ननु किमिदम् ? । भ्रातास्मि लक्ष्मणस्ते जित्वाऽनागतः पुरतः ॥१८॥ सुधयेव तेन वचसा सिक्तः संजातचेतनो रामः । दृष्ट्वाऽग्रे निजमनुजं सहर्ष बाष्पः समालिङ्गत् ॥१९॥ सौमित्त्रिरपि सबाष्पं जगाद कस्यापि मायिनो नियतम् । ननु सिंहनादकारणमिह सीताहरणमिदमजनि ॥२०॥ तस्य प्राणैः सममहभिहाहरिष्यामि जानकीमधुना । तत्प्रवृत्त्युपलम्भारम्भाय यतावहे तावत् ॥२१॥ एष विराधः प्रणमत्यार्यप्रदान् राज्यमवटलङ्कायाम् । पैत्र्यममुष्य निवेश्यस्तत्र मयाऽङ्गीकृतं यस्मात् ॥२२॥ [ ३५९ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy