________________
३५८]
[विवेकमञ्जरी
श्रीरामचन्द्रस्य सलक्ष्मणस्य लप्स्ये न यावत्कुशलप्रवृत्तिम् । तावद् न भोक्ष्ये शुचिशीलगीता सीताऽग्रहीदेवभिग्रहं सा ॥९७॥ लङ्कानगर्युपवने दशकन्धरोऽथाहानेन देवरमणे रमणीयभासि। गुप्तां सदा त्रिजटयाऽपि च यामिकैस्तां सीतामशोकतरुखण्डतले मुमोच
॥९८॥ ॥ इति सीताचरितनाम्नि महाकाव्ये रामप्रवास-सीतापहारवर्णनो नाम द्वितीयः सर्गः ॥
10
दृष्ट्वेतश्च सुमित्रापुत्रो रामं जगाद संभ्रान्तः । आर्य ! किमार्यामेकाकिनी विहाय त्वमप्यागाः ? ॥१॥ . रामोऽभ्यधत्त भवतः श्रुत्वाक्ष्वेडामिहाहमायातः । सोमित्रिराह न मम क्ष्वेडा, केनापि वञ्चितोऽसि त्वम् ॥२॥ आर्यामपहर्तुमार्यामुपायतस्त्वमसि नूनमपनीतः । सिंहध्वनितविधाने शङ्के स्तोकं न कारणं किमपि ॥३॥ तद् व्यावृत्त्य जवेन त्रायस्वार्यां व्रजार्य ! निजमुटजम् । अहमपि निहत्य रिपुकुलमायातः पृष्ठतो भवतः ॥४॥ सैमित्रिणेति गदितो रामः स्वस्थानमागतः सपदि । तत्रादृष्ट्वा सीतां क्षितिपीठे मूच्छितः पतितः ॥५॥ पवनेन लब्धसञः पश्यंश्चेतस्ततः प्रियां मोहात् । दृष्ट्वा जटायुमसिहतमिति रामश्चिन्तयामास ॥६॥ केनापि कपटपटना जहे जानामि जानकी सा मे । तेनैवैष महात्मा निषूदितस्तदापहृतिकुपितः ॥७॥ परमार्हतोऽस्य रामः प्रत्युपकृतये ददौ नमस्कारम् । मृत्वा जटायुरपि स त्रिदशो माहेन्द्रकल्पेऽभूत् ॥८॥ रामस्तु दण्डकाया गिरितरुटिनीनिकुञ्जपुञ्जेषु । दर्श दर्शमपश्यन् सीतां निपपात मूच्छितो भूयः ॥९॥ अत्रान्तरे सुमित्रासूनुः संहृत्य रिपुबलं सकलम् । राममवाप विराधेनानुगतः पौरुषेणेव ॥१०॥