________________
10
गुणानुमोदनाद्वारे सीतादेवीकथा]
[३५७ साक्षेपमूचे च दशाननं स रे रे क्व दारान् रघुनन्दनस्य । हरस्यहं ते पुरतो जटायुरायुविकर्षामि नखाङ्कटीभिः ॥८५॥ इत्थं वदन्नुन्मदपक्षघातैरमुं चपेटाभिरिवाजघान । वक्षोऽस्य चञ्चूनखरैर्व्यलेखीत् क्षेत्रं हलायैरिव पक्षिवीरः ॥८६॥ क्रुद्धोऽथ लङ्काधिपतिस्तमुग्रकृपाणघाताद् भुवि पातयित्वा । सीतामथारोप्य विमानमुच्चैश्चचाल पूर्णाश इवाम्बरेण ॥८७॥ . . श्येनेन चिल्लीव दशाननेन सा नीयमाना विललाप सीता । भामण्डलं भ्रातरहं क्व नीये हा राम ! हा देवर ! तात ! मातः ! ॥८८॥ श्रुत्वेति सीतारुदितं द्युमार्गे भामण्डलस्याथ पदातिरेकः । उपागतो योद्धमखेचरत्वं नीतो दशास्येन पपात भूमौ ॥८९।। गच्छन् समुद्रोपरिवर्मनाऽथ दशाननः सान्त्वयति स्म सीताम् । विश्वकभर्तुमहिषीपदं मे प्राप्तासि किं रोदिषि देवि ! सीते ! ॥९०॥ त्वां योजयन् देवि ! वनेचरेण चक्रे विधाता खलु नानुरूपम् । . तन्न्यूनमुन्मूलितमद्य तस्य मया तु दासीभवता भवत्याः ||९१|| मन्यस्व तद् मां दयितं मृगाक्षि ! कुरुष्व दासं निजसंनिभं च । इत्थं कृतेऽन्ये पतयस्त्रिलोक्या दासानुदासास्तव वासवाद्याः ॥१२॥ चटु ब्रुवाणे पटुरावणेऽदः सीता स्थिता द्वैधमवाङ्मुखी सा। श्रीराम ! रामेति हृदि स्मरन्ती पञ्चाक्षरीमन्त्रमरीणशीला ॥९३।। चाटूनि तन्वन् मदनातुरोऽस्या मुहुर्दशास्यः क्रमयोः पपात । . सा तु स्वपादौ परतश्चकार सीताऽन्यपुंस्पर्शभयेन भूम्ना ॥९४॥ अत्यर्थमभ्यर्थनयाऽस्य दूना सीता शशापेति पुलस्त्यपुत्रम् । निर्लज्ज ! मृत्युं लघु लप्स्यसे त्वं फलं परस्त्रीजनकामनायाः ॥१५॥ असावमात्यैरथ सारणाद्यैरनेकशो राक्षसराजलोकैः। ..... अभ्यागतैः सार्धमतीव हृष्टः पुरीमकीर्ति च परां प्रविष्टः ।।९६॥
15