________________
३५६]
[विवेकमञ्जरी
इत्युक्तमात्रोऽप्यतिमात्रवेगाद् दशास्यचेतः समसीर्षयेव । अमानशक्तिः स विमानराजः सीतोपकण्ठं गत एव हृष्टः ।।७२।। दृष्ट्वापि सीताममरीभिवाग्रेऽशकद् न हर्तुं दशकन्धरोऽपि । तस्थौ च दूरे रघुवंशकेतोर्बिभ्यद् हुताशादिव चित्रकायः ॥७३॥ सीतां स्वयं हर्तुमथाबलोऽनुसस्मार विद्यामवलोकिनी सः । तत्कालमेवोपगता दशास्यं सोचे प्रभो ! मां दिश किं करोमि ? ॥७४।। अथादिशत् तां मुदितो दशास्यः सदाप्यमोघाऽस्यवलोकिनि ! त्वम् । हरिष्यतो दाशरथेः कलत्रं ममाद्य साहाय्यमुरीकुरुष्व ॥५॥ सा सङ्कचन्ती प्रभुशङ्कयाऽऽह स्वामिन् ! महाहेरपि मौलिरत्नम् । तवाज्ञयाऽऽहृत्य समानयामि सीतां तु नो रामसमीपतोऽहम् ॥७६।। किन्त्वस्त्युपायो ननु येन यायादयं सुमित्रातनयं प्रवीरः । तस्यैव सिंहध्वनिना तयोः श्रीनिकेतसङ्केतवचो यदेतत् ॥७७।। एवं विधेहीति दशाननस्य निदेशतः साऽकृत सिंहनादम् । श्रुत्वा च तं दाशरिथः सशङ्कमनङ्कदोःशक्तिरदो व्यमृक्षत् ॥७८॥ ममानुजोऽयं जगदेकवीरः प्राप्येत केनापि पराभवं न । आकर्ण्यते किन्तु पराभवाप्तिसङ्केतसिंहध्वनिराः किमेतत् ? ॥७९॥ इत्थं वितर्कान् विततान रामो यावज्जवात् तावदवाप्तकम्पा । अतुल्यवात्सल्यवती सुमित्रापुत्रे तदा तं निजगाद सीता ॥८०॥ इत्यादिसीतावचनेन सिंहनादेन चापि त्वरितं प्रणुन्नः । अमन्यमानोऽशकुनानपि ज्यामारोपयन् धन्वनि राघवोऽगात् ।।८२।। अभ्रादथोत्तीर्यदशाननोऽपि व्यग्राशयां लक्ष्मणसङ्कटल् । विमानमारोपयितुं रटन्तीं सीतामतीवारभतोपगृह्य ।।८३॥ अत्रान्तरेऽस्या रुदितोपहूतः साटोपमभ्येत्य पुरो जटायुः । प्रोवाच सीतामहमागतोऽस्मि प्रतिव्रते ! मा स्म भयं दधीथाः ॥८४॥
15