________________
[३५५
10
गुणानुमोदनाद्वारे सीतादेवीकथा]
विलोक्य रामं त्रिदशाभिरामं सा विस्मृतस्वाङ्गजमृत्युशोका । समेत्य कन्याकृतिरात्मपाणिग्रहं ययाचे ग्रहिला स्मरेण ॥६०॥ रामेण साऽवादि ममास्ति भार्या निर्भार्यमङ्गीकुरु मे कनिष्ठम् । सौमित्रिरप्येतदवोचदेनामार्याश्रयाद् मे भवसि त्वमार्या ॥६१॥ ततोऽर्थनाखण्डनतः स्वपुत्रवधाच्च जातद्विगुणप्रकोपा । ताभ्यां कृतं सा तरसा वजित्वा खराय सम्बूकवधं शशंस ॥६२॥ ततः सहस्त्राणि चतुर्दशैष रक्षोभटानुद्भटबाहुवीर्यान् । आदाय हन्तुं रघुनन्दनौ तौ क्रुधा खरः प्राप खरस्तदेव ॥६३।। किं योत्स्यते सत्यपि मय्यमीभिराय: प्रबन्धोऽपि मया कृतोऽयम् । इति प्रणम्यार्थयति स्म रामं सौमित्रिरेतान् कुतुकेन हन्तुम् ॥६४॥ रामोऽभ्यधाद् वत्स ! रणाय गच्छ यदा तु ते सङ्कटमेति किञ्चित् । तदा त्वमक्षेपकृतेन सिंहनादेन मां ज्ञापयितुं यतेथाः ॥६५॥ आदाय साक्षादिति रामशिक्षां गत्वा च सौमित्रिरमूनमित्तान् । प्रावर्तताहीनिव हन्तुभेकोऽप्येतान् गरुत्मानिव चापचञ्चुः ॥६६॥ प्रवर्तमाने च रणे तमेक्ष्य तथा प्रवृतं त्वरया त्रिकूटे । गत्वा स्वयं चन्द्रणखा दशास्यं विश्वत्रयीकन्दकमित्युवाच ॥६७|| देवागतौ सम्प्रति दण्डकायां वीरावुभौ दाशरथी मदोग्रौ । सखित्वहेतोरिव तावकीनं यमाय यामेयमिमावदत्ताम् ।।६८॥ श्रुत्वेति कोपात् तव यामिभर्ता सौमित्रिणाऽऽस्ते सह युध्यमानः । स्वभ्रातृवीर्याद् निजवीर्यतश्च रामस्तु वेलन् सह सीतयाऽस्ति ॥६९।। भ्रातर्जितं किं भवताऽत्र विश्वदासीकरौ दाशरथी यदि स्तः । राज्येन किं ते वद यन्न सीता स्त्रीरत्नमास्ते भुवनाभिरामम् ? ॥७०।। श्रुत्वेति लङ्काधिपतिर्विशङ्को वेगाद् निजं पुष्पकमादिदेश । विमानराजं त्वरितं प्रयाहि तत्राद्य यत्रास्ति विदेहपुत्री ॥७१॥
15
20