________________
३५४]
[विवेकमञ्जरी अस्मत्पदस्पर्शवशादभूच्च संप्रत्ययं रोगविमुक्तदेहः ।। श्रुत्वेति पक्ष्यप्यजनिष्ट सोऽर्हद्धमैकतानः करुणाप्रधानः ॥४८॥ अशंसतां चाथ तयोर्महर्षी साधर्मिकोऽयं युवयोः पतत्त्री। . तं राघवौ बन्धुपदेऽनयेतां यथागतं चापि गतौ मुनि तौ ॥४९॥ सीतान्वितौ दाशरथी जटायुनिषेवितौ पञ्चवटी प्रयान्तौ ।
कृताश्रयौ तत्र लतागृहेषु स्थितौ मृगेन्द्राविव दुष्प्रधर्षों ॥५०॥ $8 अथैकदा दाशरथिः कनिष्ठः क्रीडंस्तटे क्रौञ्चरवात् तटिन्याः ।
ययौ ददर्शात्र च वंशजालीमालीनमस्यां च कृपाणमेकम् ॥५१॥ साश्चर्यमादाय तमाशु कोशादाकृष्य वेणीमिव कालरात्रिम् । विधूय चानेन स वंशजाली मृणालमालामिव तं लुलाव ॥५२॥ ददर्श तस्यामथ धूपकुण्डं मुण्डं च तत्र स्फुरदोष्ठमेकम् । तदा कबन्धं स्रवदस्रमेष वंशान्तरे वल्गुलिकासनस्थम् ॥५३।। अचिन्तयश्चैष विषण्णचेता मया हतो हा हतकेन कश्चित् । पुमानशस्त्रोऽमयुध्यमानः संसाधयन् किञ्चिदवाग् मुधापि ॥५४॥ स्वं शोचयित्वेति चिराय गत्वा रामाय सर्वं तदशंसताऽयम् । संदर्शयामास च मण्डलाग्रं निर्वर्ण्य तं चेदमुवाच रामः ॥५५।। वत्सैष भासा कृतसूर्यहासः खड्गोऽभिधानेन च सूर्यहासः । त्वया हतो यः स तु साधकोऽस्य संभाव्यते वोत्तरसाधकोऽपि ॥५६॥ अत्रान्तरे चन्द्रणखेति कान्ता पाताललङ्काधिपतेः खरस्य । स्वसा च लङ्काधिपतेरियाय द्रष्टुं स्वपुत्रं किल दण्डकायाम् ॥५७।। सा छिन्नवंशेषु शिरः स्वसूनोलुंठद् विलोक्यातिशुचा व्यलापीत् । हा वत्स! मातुः कथय स्वकाया: सम्बूक सम्बूक ! हतोऽसि केन? ॥५८॥ दृष्ट्वा ततः पादलिपि सुमित्रासूनोरनूनोत्तमलक्षणां सा । ययौ पथा तेन ददर्श चाग्रे सीतान्वितौ दाशरथी मनोज्ञौ ॥५९॥