________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
[ ३५३
ततो ददौ यद्भरताय राज्यमेतावताऽसावनृणीबभूव । अहं त्विदं मातृमुखादमुष्मादाच्छिद्य सद्यो रचयामि रामे ॥ ३५ ॥ आर्योऽथवा यत् तृणवद् विमुच्य नादास्यते राज्यमिदं सुसत्त्वः । तातस्य दुःखं भविता तु तस्मात् पदातिवद् राममनुव्रजामि ||३६|| ध्यात्वेति धीमान् प्रणिपत्य तातमम्बां सुमित्त्रापराजितां च । सौमित्त्रिरप्यात्तधनुर्निषङ्गं सीतान्वितं राममथान्वियाय ||३७|| त्रयोऽपि ते फुल्लमुखारविन्दा विनिर्ययुः कोशलराज्यपुर्याः । प्राकारसौधाग्रतलप्रतिष्ठैः पौरैरपाराश्रुभिरीक्ष्यमाणाः ||३८|| सौमित्रि - सीतानुमतोऽथ रामः क्रामन् धरित्रीवलयं क्रमेण । वनीमपाच्यां दिशि दण्डकाख्यां गत्वा गृहे वा गिरिगह्वरेऽस्थात् ॥३९॥ तत्र द्विमासानशितौ परेद्युरुपागतौ द्वौ नभसा महर्षी । रघूद्वहाभ्यां नतयोरदत्त सीता तयोः प्रासुकवस्तुभिक्षाम् ||४०|| गन्धाम्बुवर्षं विदधुस्तदानीं तस्मिन् सुरा दुन्दुभिनाद्पूर्वम् । तद्गन्धतोऽभ्येत्य मुनी ननाम रोगी खगो गृध्र इति प्रसन्नः ॥४१॥ तयोः पदस्पर्श वशादरोगो सुवर्णपक्षश्च सुचारुचञ्चुः । रत्नाङ्कुरच्छायजटाभिरासीत् ततः प्रसिद्धः । स जटायुनाम्ना ॥४२॥ रामोऽब्रवीत् तौ यतिनौ प्रतीदं क्रव्यादयं दुष्टमतिश्च पक्षी । पूज्यौ ! भवत्पादसमीपवर्ती स्थित्वा कथं शान्ति इवाजनिष्ट ? ॥४३॥ तौ शंसतः स्माजनि कुम्भकारकृताख्यमस्मिन् नगरं गरीयः । तत्राभवद् दण्डकनामधेयो राजा द्विषद्दण्डनचण्डशक्ति: ॥४४॥ तन्मन्त्रिणा पालकसञ्ज्ञितेन मिथ्याद्दशैतन्मतमाप्य दभ्मात् । निपीलितः स्कन्दकसूरिरासीद् निदानतो वह्निकुमारदेवः ॥४५॥ भ्रान्त्वा भवं दण्डकभूपतिस्तु वनेऽत्र पक्षी समभूदयं सः । कुष्ठी परं पूर्वविर्कमणाऽस्मानालोक्य जातिस्मरणादिहागात् ॥४७॥
5
10
15
20