________________
३५२]
[विवेकमञ्जरी आ: केन मूर्छा व्यपरोपिता मे येनेयमासीद् सुखमृत्युहेतुः । कथं कथं रामवियोगदुःखं जीवत्यहं दैवहता सहिष्ये ? ||२३|| रामोऽब्रवीत् कातरता तवेयं मातः । कथं पन्यसि मत्पितुर्यत् ? । सिंहीसुतो याति न किं वनान्तं सिंही तु किं ताम्यति लेशतोऽपि ? ॥२४॥ समस्ति तातेन ऋणं प्रदेयं यतो वर: केकयनन्दनायै । मय्यत्र सत्यम्ब ! पवित्रसत्यव्रतस्य तस्यानृणता कथं स्यात् ? ॥२५॥ युक्त्याऽनया तां प्रतिबोध्य रामः पराश्च मातृः प्रणिपत्य यातः । सीतापि नत्वा नृपमेत्य देवीं रामानुयानाय रयादपृच्छत् ॥२६॥ देव्यङ्कमारोग्य सगद्गदं तां सीतामशीताश्रुजला जगाद । पितुर्नियोगेन वनाय वत्से ! याता नृसिंहोऽस्य न दुष्करं तत् ॥२७॥ त्वं बालजातीकलिकेव वत्से ! म्लानि कठोराद् मरुतोऽपि यासि । पद्भ्यां समं यातुमपारयन्ती स्वभर्तुरप्यातनुषे च खेदम् ॥२८॥ वत्से ! निजस्यानुगमेन भर्तुरनिष्टकष्टागमनेन वापि । तव प्रयान्त्याः प्रतिषेधमद्य विधिं च कर्तुं न हि पारयामि ॥२९॥ अथाह सीता त्वपराजितां तां नितान्तसंफुल्लमुखी प्रणम्य । त्वद्भक्तिरेवास्तु शुभङ्करा मे पथि स्वभर्तारमनुप्रयास्ये ॥३०॥ सन्माननं तत् किल कामनं मे स्वर्गभिरामा ननु ते च मार्गाः । ते सानुमन्तोऽनुमताश्च यत्र त्वत्पुत्रपादा निवसन्ति मातः ! ॥३१॥ उक्त्वेति नत्वा च निजप्रियाम्बां सीता ततो राममनुप्रयाता। सतीशिरोरत्नमुदश्रुपौरनारीभिरध्वन्यवलोक्यमाना ॥३२॥ निर्यान्तमाकर्ण्य वनाय रामं सौमित्रिरुत्तम्भितकोपकम्पः । विश्रान्तदृष्टिः किल चापदृष्टौ दध्यौ सवैलक्ष्यमिदं हृदन्तः ॥३३॥ प्रायः पुमांस सरलस्वभावा रण्डास्तु कौटिल्यकलाकरण्डाः । ताताद् ययाचे कथमन्यथाऽस्मिन् काले वरं केकयसंभवेयम् ? ॥३४||