SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 5 ६२८] [ धर्म एव तव जनको जननी तव जीव ! सर्वजीवदया । तव बान्धवो विवेकः परमं मित्रं च सम्यक्त्वम् ॥ मनःशुद्धिः पुनर्दयितोपशमप्रमुखा गुणाश्च तव स्वजनाः । इन्द्रियजयश्च पुत्रः शुभबुद्धिस्तव पुनर्दुहिता ॥ एतदेव कुटुम्बं धरेर्ह्यदये कुर्या मम वचनम् । परलोकेऽपि प्रोषितं त्वां न मुञ्चति यत्क्षणार्धमपि ॥] [ विवेकमञ्जरी नान्यः व्याख्या । हे जीव 'चिय त्ति' अवधारणे, तव धर्मो जनकः, सांसारिकः, यदयं संसारनाट्ये कर्मसूत्रभृत्परतन्त्रो गृहीतमुक्तान्यान्यज्ञातेयनेपथ्यो नट इव विचेष्टते, धर्मस्तु तत्ताद्दक्कुलजातिरूपचिद्रूपतारोग्यभाग्यसौभाग्याधिपत्यादेः 10 प्रतिभवं जनक त्वादेकान्तेन जनकः । जननी च तव का नाम ? 'सव्वजीवदया ' सर्वे च ते जीवा एकेन्द्रिादयस्ते तथा तेषु दया कृपा । अन्या हि जननी पूर्वोक्त बहिरङ्गपितृवद् भवनाटकनटी, इयं तु सर्वजीवदया रूपायुरारोग्यादिजननाद्वैतादात्मनः सनातनैव जननी, यदुक्तम् - " मातेव सर्वभूतानामहिंसा हितकारिणी" । [ यो.शा. २/५० ] इति । जनकस्य जननी प्रसत्तिपात्रं स्यात्, तदियमपि धर्मस्य तद्वत् । तथाहि— 15 "चराचरेषु जीवेषु रक्षा धर्मप्रसत्तये । तपोदानजपध्यानजातमस्याः परिच्छदः " ॥ [ ] बान्धवस्तव को नाम ? विवेको हेयोपादेयकृत्यविवेचनम् । सांसारिको हि बध्नाति सुखेनेति बान्धव इति व्युत्पत्त्या वीक्ष्यमाण एकभविकऋणवैरशब्ददातापि 20 द्रव्यादिविभागत्वाद् दुःखद एव । अयं त्वनन्तभवप्रवर्धितकर्मऋणमोचयिता रागादिवैरिवारनिवारकत्वादुत्तरोत्तरवैभवासंविभागित्वाच्चेहामुत्र च प्राणिनं सुखेन बध्नन् विवेक एवैको बान्धवः । परमं प्रकृष्टं मित्रं च तव । किं तत् ? सम्यक्त्वम् । यतः, मेद्यति स्निह्यतीति मित्रमिति व्युत्पत्त्या विचार्यमाणमिदमेव जाघटिति, यत् कर्मबन्धकारणमिथ्यात्वनिवर्तकत्वात् प्राणिनः प्रीतिं वर्धयति, 25 यदुक्तम् - " किं मित्रं, यद् निवारयति पापात् " [ ] अन्यश्च सांसारिकं मित्रं
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy